सञ्चिन्तितं मया तत्र नारदोऽहमिहागतः । हरिणा सह स्त्रीभावं प्राप्तो मायाविमोहितः
इति चिन्तापरश्चाहं यदा जातस्तदा हरिः । मामाह नारदागच्छ किं करोषि जले स्थितः
विस्मितोऽहं तदा स्मृत्वा स्त्रीभावं दारुणं भृशम् । पुनः पुरुषभावश्च सम्पन्नः केन हेतुना
; मायाप्राबल्यवर्णनम् नारद उवाच मां दृष्ट्वा नारदं विप्रं विस्मितोऽसौ महीपतिः । क्व गता मम भार्या सा कुतोऽयं मुनिसत्तमः
विललाप नृपस्तत्र हा प्रियेति मुहुर्मुहुः । क्व गता मां परित्यज्य विलपन्तं वियोगिनम्
विना त्वां विपुलश्रोणि वृथा मे जीवितं गृहम् । राज्यं कमलपत्राक्षि किं करोमि शुचिस्मिते
न प्राणा मे बहिर्यान्ति विरहेण तवाधुना । गतो वै प्रीतिधर्मस्तु त्वामृते प्राणधारणात्
विलपामि विशालाक्षि देहि प्रत्युत्तरं प्रियम् । क्व गता सा मयि प्रीतिर्याभूत्प्रथमसङ्गमे
निमग्ना किं जले सुभ्रूर्भक्षिता मत्स्यकच्छपैः । गृहीता वरुणेनाशु मम दौर्भाग्ययोगतः
धन्या सुचारुसर्वाङ्गि या त्वं पुत्रैः समागता । अकृत्रिमस्तु पुत्रेषु स्नेहस्तेऽमृतभाषिणि
न युक्तमधुना यन्मां विहाय त्रिदिवं गता । विलपन्तं पतिं दीनं पुत्रस्नेहेन यन्त्रिता
उभयं मे गतं कान्ते पुत्रास्त्वं प्राणवल्लभा । तथापि मरणं नास्ति दुःखितस्य भृशं प्रिये
किं करोमि क्व गच्छामि रामो नास्ति महीतले । रामाविरहजं दुःखं जानाति रघुनन्दनः
विधिना निष्ठुरेणात्र विपरीतं कृतं भुवि । दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः
उपकारस्तु नारीणां मुनिभिर्विहितः किल । यदुक्तं धर्मशास्त्रेषु ज्वलनं पतिना सह
एवं विलपमानं तं राजानं भगवान्हरिः । निवारयामास तदा वचनैर्युक्तियोजितैः
श्रीभगवानुवाच किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना । न श्रुतं किं त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः
का सा कस्त्वं क्व संयोगो वियोगः कीदृशस्तव । प्रवाहरूपे संसारे नृणां नौतरतामिव
गृहे गच्छ नृपश्रेष्ठ वृथा ते रुदितेन किम् । संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम्
अनया सह ते राजन् संयोगस्त्विह संवृतः । भुक्ता त्वया विशालाक्षी सुन्दरी तनुमध्यमा
न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे । काकतालीप्रसङ्गेन यद्भूतं तत्तथा गतम्
मा शोकं कुरु राजेन्द्र कालो हि दुरतिक्रमः । कालयोगं समासाद्य भुङ्क्ष्व भोगान् गृहे यथा
यथागता गता सा तु तथैव वरवर्णिनी । यथा पूर्वं तथा तत्र गच्छ कार्यं कुरु प्रभो
रुदितेन तवाद्यैव नागमिष्यति कामिनी । वृथा शोचसि पृध्वीश योगयुक्तो भवाधुना
भोगः कालवशादेति तथैव प्रतियाति च । नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि
नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः । घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः
मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम् । अथवा न्यस्य दायादे वनं सेवय साम्प्रतम्
दुर्लभो मानुषो देहः प्राणिनां क्षणभङ्गुरः । तस्मिन्प्राप्ते तु कर्तव्यं सर्वथैवात्मसाधनम्
जिह्वोपस्थरसो राजन् पशुयोनिषु वर्तते । ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु
तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्भवम् । मायेयं भगवत्यास्तु यया सम्मोहितं जगत्