परस्परं कदाचित्तु विरोधोऽभूत्सुदारुणः । पुत्राणां वा वधूनां च तेन सन्तापसम्भवः
सुखदुःखात्मके घोरे मिथ्याचारकरे भृशम् । सङ्कल्पजनिते क्षुद्रे मग्नोऽहं मुनिसत्तम
विस्मृतं पूर्वविज्ञानं शास्त्रज्ञानं तथा गतम् । योषाभावे विलीनोऽहं गृहकार्येषु सर्वथा
अहङ्कारस्तु सञ्जातो भृशं मोहविवर्धकः । एते मे बलिनः पुत्राः स्नुषाः सुकुलसम्भवाः
एते पुत्राः सुसन्नद्धाः क्रीडन्ति मम वेश्मसु । धन्याहं खलु नारीणां संसारेऽस्मिन्नहो भृशम्
नारदोऽहं भगवता वञ्चितो मायया किल । न कदाचिन्मयाप्येवं चिन्तितं मनसा किल
राजपत्नी शुभाचारा बहुपुत्रा पतिव्रता । धन्याहं किल संसारे कृष्णैवं मोहितस्त्वहम्
अथ कश्चिन्नृपः कामं दूरदेशाधिपो महान् । अरातिभावमापन्नः पतिना सह मानद
कृत्वा सैन्यसमायोगं रथैश्च वारणैर्युतम् । आजगाम कान्यकुब्जे पुरे युद्धमचिन्तयत्
वेष्टितं नगरं तेन राज्ञा सैन्ययुतेन च । मम पुत्राश्च पौत्राश्च निर्गता नगरात्तदा
संग्रामस्तुमुलस्तत्र कृतस्तैस्तेन पुत्रकैः । हता रणे सुताः सर्वे वैरिणा कालयोगतः
राजा भग्नस्तु संग्रामादागतः स्वगृहं पुनः । श्रुतं मया मृताः पुत्राः संग्रामे भृशदारुणे
स हत्वा मे सुतान्पौत्रान्गतो राजा बलान्वितः । क्रन्दमाना ह्यहं तत्र गता समरमण्डले
दृष्ट्वा तान्पतितान्पुत्रान्पौत्रांश्चदुःखपीडिता । विललापाहमायुष्मञ्छोकसागरसंप्लवे
हा पुत्राः क्व गता मेऽद्य हा हतास्मि दुरात्मना । दैवेनातिबलिष्ठेन दुर्वारेणातिपापिना
एतस्मिन्नन्तरे तत्र भगवान्मधुसूदनः । कृत्वा रूपं द्विजस्यागाद्वृद्धः परमशोभनः
सुवासा वेदवित्कामं मत्समीपं समागतः । मामुवाचातिदीनां स क्रन्दमानां रणाजिरे
ब्राह्मण उवाच किं विषीदसि तन्वङ्गि भ्रमोऽयं प्रकटीकृतः । मोहेन कोकिलालापे पतिपुत्रगृहात्मके
का त्वं कस्याः सुताः केऽमी चिन्तयात्मगतिं पराम् । उत्तिष्ठ रोदनं त्यक्त्वा स्वस्था भव सुलोचने
स्नानं च तिलदानं च पुत्राणां कुरु कामिनि । परलोकगतानां च मर्यादारक्षणाय वै
कर्तव्यं सर्वथा तीर्थे स्नानं तु न गृहे क्वचित् । मृतानां किल बन्धूनां धर्मशास्त्रविनिर्णयः
नारद उवाच इत्युक्त्वा तेन विप्रेण वृद्धेन प्रतिबोधिता । उत्थिताहं नृपेणाथ युक्ता बन्धुभिरावृता
अग्रतो द्विजरूपेण भगवान्भूतभावनः । चलिताहं ततस्तूर्णं तीर्थं परमपावनम्
हरिर्मां कृपया तत्र पुंतीर्थे सरसि प्रभुः । नीत्वाह भगवान्विष्णुर्द्विजरूपी जनार्दनः
स्नानं कुरु तडागेऽस्मिन्पावने गजगामिनि । त्यज शोकं क्रियाकालः पुत्राणां च निरर्थकम्
कोटिशस्ते मृताः पुत्रा जन्मजन्मसमुद्भवाः । पितरः पतयश्चैव भ्रातरो जामयस्तथा
केषां दुःखं त्वया कार्यं भ्रमेऽस्मिन्मानसोद्भवे । वितथे स्वप्नसदृशे तापदे देहिनामिह
नारद उवाच इति तस्य वचः श्रुत्वा तीर्थे पुरुषसंज्ञके । प्रविष्टा स्नातुकामाहं प्रेरिता तत्र विष्णुना
मज्जनादेव तीर्थेषु पुमाञ्जातः क्षणादपि । हरिर्वीणां करे कृत्वा स्थितस्तीरे स्वदेहवान्
उन्मज्ज्य च मया तीरे दृष्टः कमललोचनः । प्रत्यभिज्ञा तदा जाता मम चित्ते द्विजोत्तम