दैवमेव परं राजन्नास्त्यत्र पौरुषं मम । धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु
तवाधीनास्म्यहं भूप न मे कोऽप्यस्ति पालकः । न पिता न च माता च न स्थानं न च बान्धवाः
इत्युक्तोऽसौ मया राजा बभूव मदनातुरः । मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह
नरयानमानयध्वं चतुर्वाह्यं मनोहरम् । आरोहणार्थमस्यास्तु कौशेयाम्बरवेष्टितम्
मृद्वास्तरणसंयुक्तं मुक्ताजालविभूषितम् । चतुरस्रं विशालं च सुवर्णरचितं शुभम्
तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः । आनिन्युः शिबिकां दिव्यां मदर्थे वस्त्रवेष्टिताम्
आरूढाऽहं तदा तस्यां तस्य प्रियचिकीर्षया । मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः
विवाहविधिना राजा शुभे लग्ने शुभे दिने । उपयेमे च मां तत्र हुतभुक्सन्निधौ ततः
तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी । सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम
रममाणो मया सार्धं सुखमाप महीपतिः । नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा
राजकार्याणि सन्त्यज्य क्रीडासक्तो दिवानिशम् । नासौ विवेद गच्छन्तं कालं कामकलारतः
उद्यानेषु च रम्येषु वापीषु च गृहेषु च । हर्म्येषु वरशैलेषु दीर्घिकासु वरासु च
वारुणीमदमत्तोऽसौ विहरन्कानने शुभे । विसृज्य सर्वकार्याणि मदधीनो बभूव ह
व्यासाहं तेन संसक्ता क्रीडारसवशीकृता । स्मृतवान्पूर्वदेहं न पुंभावं मुनिजन्म च
ममैवायं पतिर्योषाहं पत्नीषु प्रिया सती । पट्टराज्ञी विलासज्ञा सफलं जीवितं मम
इति चिन्तयती तस्मिन्प्रेमबद्धा दिवानिशम् । क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी
विस्मृतं ब्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् । धर्मशास्त्रपरिज्ञानं तदासक्तमना स्थिता
एवं विहरतस्तत्र वर्षाणि द्वादशैव तु । गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने
जाता गर्भवती चाहं मुदं प्राप नृपस्तदा । कारयामास विधिवद्गर्भसंस्कारकर्म च
अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः । नाब्रवं लज्जमानाहं नृपं प्रीतमना भृशम्
सम्पूर्णे दशमे मासि पुत्रो जातस्ततो मम । शुभेऽह्नि ग्रहनक्षत्रलग्नताराबलान्विते
बभूव नृपतेर्गेहे पुत्रजन्ममहोत्सवः । राजा परमसन्तुष्टो बभूव सुतजन्मतः
सूतकान्ते सुतं वीक्ष्य राजा मुदमवाप ह । अहं भूमिपतेश्चासं प्रिया भार्या परन्तप
ततो वर्षद्वयान्ते वै पुनर्गर्भो मया धृतः । द्वितीयस्तु सुतो जातः सर्वलक्षणसंयुतः
सुधन्वेति सुतस्याथ नाम चक्रे नृपस्तदा । वीरवर्मेति ज्येष्ठस्य ब्राह्मणैः प्रेरितस्त्वयम्
एवं द्वादश पुत्राश्च प्रसूता भूपसम्मताः । मोहितोऽहं तदा तेषां प्रीत्या पालनलालने
पुनरष्ट सुताः काले काले जाताः स्वरूपिणः । गार्हस्थ्यं मे ततः पूर्णं सम्पन्नं सुखसाधनम्
तेषां दारक्रियाः काले कृता राज्ञा यथोचिताः । स्नुषाभिश्च तथा पुत्रैः परिवारो महानभूत्
ततः पौत्रादिसम्भूतास्तेऽपि क्रीडारसान्विताः । आसन्नानारसोपेता मोहवृद्धिकरा भृशम्
कदाचित्सुखमैश्वर्यं कदाचिद्दुःखमद्भुतम् । पुत्रेषु रोगजनितं देहसन्तापकारकम्