किमेतदिति मनसाकरवं विस्मयं मुहुः । एवं चिन्तयमानस्य नारीरूपधरस्य मे
सहसा दृक्पथं प्राप्तस्तत्र तालध्वजो नृपः । गजाश्वरथवृन्दैश्च संवृतो रथसंस्थितः
युवा भूषणसंवीतो देहवानिव मन्मथः । वीक्ष्य मां भूपतिस्तत्र दिव्यभूषणभूषिताम्
राकाचन्द्रमुखीं योषां विस्मयं परमं गतः । पप्रच्छ कासि कल्याणि कस्य पुत्री सुरस्य वा
मानुषस्य च वा कान्ते गन्धर्वस्योरगस्य च । एकाकिनी कथं बाला रूपयौवनभूषिता
विवाहिताथ कन्या वा सत्यं वद सुलोचने । किं पश्यसि सुकेशान्ते तडागेऽस्मिन्सुमध्यमे
चिकीर्षितं पिकालापे ब्रूहि मन्मथमोहिनि । भुङ्क्षव भोगान्मरालाक्षि मया सह कृशोदरि । वाञ्छितान्मनसा नूनं कृत्वा मां पतिमुत्तमम्
; नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् नारद उवाच इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च । विमृश्य मनसात्यर्थं तमुवाच विशाम्पते
राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् । पितरौ क्व च मे केन स्थापिता च सरोवरे
किं करोमि क्व गच्छामि कथं मे सुकृतं भवेत् । निराधारास्मि राजेन्द्र चिन्तयामि चिकीर्षितम्
दैवमेव परं राजन्नास्त्यत्र पौरुषं मम । धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु
तवाधीनास्म्यहं भूप न मे कोऽप्यस्ति पालकः । न पिता न च माता च न स्थानं न च बान्धवाः
इत्युक्तोऽसौ मया राजा बभूव मदनातुरः । मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह
नरयानमानयध्वं चतुर्वाह्यं मनोहरम् । आरोहणार्थमस्यास्तु कौशेयाम्बरवेष्टितम्
मृद्वास्तरणसंयुक्तं मुक्ताजालविभूषितम् । चतुरस्रं विशालं च सुवर्णरचितं शुभम्
तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः । आनिन्युः शिबिकां दिव्यां मदर्थे वस्त्रवेष्टिताम्
आरूढाऽहं तदा तस्यां तस्य प्रियचिकीर्षया । मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः
विवाहविधिना राजा शुभे लग्ने शुभे दिने । उपयेमे च मां तत्र हुतभुक्सन्निधौ ततः
तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी । सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम
रममाणो मया सार्धं सुखमाप महीपतिः । नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा
राजकार्याणि सन्त्यज्य क्रीडासक्तो दिवानिशम् । नासौ विवेद गच्छन्तं कालं कामकलारतः
उद्यानेषु च रम्येषु वापीषु च गृहेषु च । हर्म्येषु वरशैलेषु दीर्घिकासु वरासु च
वारुणीमदमत्तोऽसौ विहरन्कानने शुभे । विसृज्य सर्वकार्याणि मदधीनो बभूव ह
व्यासाहं तेन संसक्ता क्रीडारसवशीकृता । स्मृतवान्पूर्वदेहं न पुंभावं मुनिजन्म च
ममैवायं पतिर्योषाहं पत्नीषु प्रिया सती । पट्टराज्ञी विलासज्ञा सफलं जीवितं मम
इति चिन्तयती तस्मिन्प्रेमबद्धा दिवानिशम् । क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी
विस्मृतं ब्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् । धर्मशास्त्रपरिज्ञानं तदासक्तमना स्थिता
एवं विहरतस्तत्र वर्षाणि द्वादशैव तु । गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने
जाता गर्भवती चाहं मुदं प्राप नृपस्तदा । कारयामास विधिवद्गर्भसंस्कारकर्म च
अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः । नाब्रवं लज्जमानाहं नृपं प्रीतमना भृशम्