त्रियुतस्तां कथं मायां जेतुं शक्तः पुमाम्भवेत् । वेदविद्योगविद्वापि सर्वज्ञो विजितेन्द्रियः
कालोऽपि तस्या रूपं हि रूपहीनः स्वरूपकृत् । तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः
कालः करोति धर्मज्ञं कदाचिद्विकलं पुनः । स्वभावात्कर्मतो वापि दुर्ज्ञेयं तस्य चेष्टितम्
नारद उवाच इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः । तमब्रवं जगन्नाथं वासुदेवं सनातनम्
रमापते कथंरूपा माया सा कीदृशी पुनः । कियद्बला क्व संस्थाना कस्याधारा वदस्व मे
द्रष्टुकामोऽस्मि तां मायां दर्शयाशु महीधर । ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते
विष्णुरुवाच त्रिगुणा साखिलाधारा सर्वज्ञा सर्वसम्मता । अजेयानेकरूपा च सर्वं व्याप्य स्थिता जगत्
दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु । गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र साम्प्रतम्
दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः । दृष्ट्वा तां ब्रह्मपुत्र त्वं विषादे मा मनः कृथाः
इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम् । स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ
आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः । समारोप्य च मां पृष्ठे गमनाय कृतादरः
चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान् । प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम्
महावनानि दिव्यानि सरांसि सरितस्तथा । पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान्
मुनीनामाश्रमान् रम्यान् वापीश्च सुमनोहराः । पल्वलानि विशालानि ह्रदान् पङ्कजभूषितान्
मृगाणां च वराहाणां वृन्दान्यप्यवलोक्य च । गतावावां कान्यकुब्जसमीपं गरुडासनौ
तत्र रम्यं सरो दिव्यं दृष्टं पङ्कजमण्डितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्
नानावर्णैः प्रफुल्लैश्च पङ्कजैरुपरञ्जितम् । शुचि मिष्टजलं भृङ्गयूथनादविराजितम्
मामाह भगवान् वीक्ष्य तडागं परमाद्भुतम् । स्पर्धकं चोदधेः क्षीरं मिष्टं वारि विशेषतः
श्रीभगवानुवाच पश्य नारद गम्भीरं सरः सारसनादितम् । सर्वत्र पङ्कजैश्छन्नं स्वच्छनीरप्रपूरितम्
अत्र स्नात्वा गमिष्यावः कान्यकुब्जं पुरोत्तमम् । इत्युक्त्वा गरुडादाशु मामुत्तार्य व्यतारयत्
विहस्य भगवांस्तत्र जग्राह मम तर्जनीम् । स्तुवन्सरोवरं भूयस्तीरे मामनयत्प्रभुः
विश्रम्य तटभागे तु स्निग्धच्छाये मनोहरे । मामुवाच मुने स्नानं कुरु त्वं विमले जले
पश्चादहं करिष्यामि तडागेऽस्मिन्सुपावने । साधूनामिव चेतांसि जलानि निर्मलानि च
सुरभीणि परागैस्तु पङ्कजानां विशेषतः । इत्युक्तोऽहं भगवता मुक्त्वा वीणां मृगाजिनम्
स्नानाय कृतधीस्तीरे गतः प्रेमसमन्वितः । पादौप्रक्षाल्य हस्तौच शिखां बद्ध्वा कुशग्रहम्
कृत्वाऽऽचम्य शुचिस्तोये स्नातवानस्मि तज्जले । यदा तस्मिज्जले रम्ये स्नातोऽहं पश्यतो हरेः
विहाय पौरुषं रूपं प्राप्तः स्त्रीत्वमनुत्तमम् । हरिर्गृहीत्वा वीणां मे तथा कृष्णाजिनं शुभम्
आरुह्य गरुडं तूर्णं जगाम स्वगृहं क्षणात् । ततोऽहं स्त्रीत्वमापन्नश्चारुभूषणभूषितः
तत्क्षणान्मनसो जाता पूर्वदेहस्य विस्मृतिः । विस्मृतोऽसौ जगन्नाथो महती विस्मृता पुनः
सम्प्राप्य मोहिनीरूपं तडागान्निर्गतो बहिः । अपश्यं नलिनीजुष्टं सरस्तद्विमलोदकम्