मातस्ते सुमुखो जातो जामाता च महाद्युतिः । वचनात्पर्वतस्याद्य मुक्तशापो मुनेरभूत्
तच्छ्रुत्वा वचनं राज्ञ्या कथितं तत्तु राजनि । ययौ द्रष्टुं मुनिं तत्र सञ्जयः प्रीतिमांस्तदा
धनं समर्पितं राज्ञा सन्तुष्टेन तदा महत् । मह्यं च भागिनेयाय पारिबर्हं महात्मना
एतत्ते सर्वमाख्यातं वर्तनं यत्पुरातनम् । मायाया बलमाहात्म्यं ह्यनुभूतं यथा मया
संसारेऽस्मिन्महाभाग मायागुणकृतेऽनृते । तनुभृत्तु सुखी नास्ति न भूतो न भविष्यति
कामक्रोधौ तथा लोभो मत्सरो ममता तथा । अहङ्कारो मदः केन जिताः सर्वे महाबलाः
सत्त्वं रजस्तमश्चैव गुणास्त्रय इमे किल । कारणं प्राणिनां देहसम्भवे सर्वथा मुने
कस्मिंश्चित्समये व्यास वनेऽहं विष्णुना सह । गच्छन्हास्यविनोदेन स्त्रीभावं गमितः क्षणात्
राजपत्नीत्वमापन्नो मायाबलविमोहितः । पुत्राः प्रसूता बहवो गेहे तस्य नृपस्य ह
व्यास उवाच संशयोऽयं महान्साधो श्रुत्वा ते वचनं किल । कथं नारीत्वमापन्नस्त्वं मुने ज्ञानवान्भृशम्
कथं च पुरुषो जातो ब्रूहि सर्वमशेषतः । कथं पुत्रास्त्वया जाताः कस्य राज्ञो गृहेऽञ्जसा
एतदाख्याहि चरितं मायाया महदद्भुतम् । मोहितं च यया सर्वमिदं स्थावरजङ्गमम्
न तृप्तिमधिगच्छामि शृण्वंस्तव कथामृतम् । सर्वग्रन्थार्थतत्त्वं च सर्वसंशयनाशनम्
; नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् नारद उवाच निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् । मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः
मायया मोहितं सर्वं जगत्स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तमजया दुर्विभाव्यया
कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे । गतोऽहं दर्शनाकाङ्क्षी हरेरद्भुतकर्मणः
वादयन्महतीं वीणां स्वरतानविभूषिताम् । गायत्रं गायमानस्तु साम सप्तस्वरान्वितम्
दृष्टो मया देवदेवश्चक्रपाणिर्गदाधरः । कौस्तुभोद्भासितोरस्को मेघश्यामश्चतुर्भुजः
पीताम्बरपरीधानो मुकुटाङ्गदराजितः । लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः
वीक्ष्य मां कमला देवी गतान्तर्धानमन्तिकात् । सर्वलक्षणसम्पन्ना सर्वभूषणभूषिता
नारीणां प्रवरा कान्ता रूपयौवनगर्विता । सुप्रिया वासुदेवस्य वरचामीकरप्रभा
अन्तर्गृहं गता दृष्ट्वा सिन्धुजां व्यञ्जनान्विताम् । मया पृष्टो देवदेवो वनमाली जगत्प्रभुः
भगवन्देवदेवेश पद्मनाभ सुरारिहन् । कथं च मा गता दृष्ट्वा मामागच्छन्तमन्तिकात्
नाहं विटो न वा धूर्तः तापसोऽहं जगद्गुरो । जितेन्द्रियो जितक्रोधो जितमायो जनार्दन
नारद उवाच निशम्य वचनं किञ्चिद्गर्वयुक्तं जनार्दनः । उवाच मां स्मितं कृत्वा वीणावन्मधुरां गिरम्
विष्णुरुवाच नारदैवंविधा नीतिर्न स्थातव्यं कदाचन । पतिं विनान्यसानिध्ये कस्यचिद्योषया क्वचित्
माया सुदुर्जया विद्वन् योगिभिर्जितमारुतैः । सांख्यविद्भिर्निराहारैस्तापसैश्च जितेन्द्रियैः
देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना । जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन
नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् । मुनयः सनकाद्याश्च कस्त्वं केऽन्ये क्षमा जये
देवदेहं नृदेहं वा तिर्यग्देहमथापि वा । बिभृयाद्यः शरीरं च स कथं तां जयेदजाम्