नारद उवाच इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा । मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया
किं मुखेन च रूपेण मूर्खस्य च धनेन किम् । किं राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च
हरिण्योऽपि वने धन्या या नादेन विमोहिताः । मातः प्राणान्प्रयच्छन्ति धिङ्मूर्खान्मानुषान्भुवि
नारदो वेत्ति यां विद्यां मातः सप्तस्वरात्मिकाम् । तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल
मूर्खेण सह संवासो मरणं तत्क्षणे क्षणे । रूपवान्धनवांस्त्याज्यो गुणहीनो नरः सदा
धिङ्मैत्रीं मूर्खभूपाले वृथा गर्वसमन्विते । गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनी
स्वरज्ञो ग्रामवित्कामं मूर्च्छनाज्ञानभेदभाक् । दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्बलोऽपि वै
यथा नयति कैलासं गङ्गा चैव सरस्वती । तथा नयति कैलासं स्वरज्ञानविशारदः
स्वरमानं तु यो वेद स देवो मानुषोऽपि सन् । सप्तभेदं न यो वेद स पशुः सुरराडपि
मूर्च्छनातानमार्गं तु श्रुत्वा मोदं न याति यः । स पशुः सर्वथा ज्ञेयो हरिणाः पशवो न हि
वरं विषधरः सर्पः श्रुत्वा नादं मनोहरम् । अश्रोत्रोऽपि मुदं याति धिक्सकर्णांश्च मानवान्
बालोऽपि सुस्वरं गेयं श्रुत्वा मुदितमानसः । जायते किन्तु ते वृद्धा न जानन्ति धिगस्तु तान्
पिता मे किं न जानाति नारदस्य गुणान् बत । द्वितीयः सामगो नास्ति त्रिषु लोकेषु तत्समः
तस्मादसौ मया नूनं वृतः पूर्वं समागमात् । पश्चाच्छापवशाज्जातो वानरास्यो गुणाकरः
किन्नरा न प्रियाः कस्य भवन्ति तुरगाननाः । गानविद्यासमायुक्ताः किं मुखेन वरेण ह
पितरं ब्रूहि मे मातर्वृतोऽयं मुनिसत्तमः । तस्मात्त्वमाग्रहं त्यक्त्वा देहि तस्मै च मां मुदा
नारद उवाच इति पुत्र्या वचः श्रुत्वा राज्ञी राज्ञे न्यवेदयत् । आग्रहं सुन्दरी ज्ञात्वा सुताया नारदे मुनौ
विवाहं कुरु राजेन्द्र दमयन्त्याः शुभे दिने । मुनिना स च सर्वज्ञो वृतोऽसौ मनसानया
नारद उवाच इति सञ्चोदितो राज्ञ्या सञ्जयः पृथिवीपतिः । चकार विथिवत्सर्वं विधिं वैवाहिकं ततः
एवं दारग्रहं कृत्वा वानरास्यः परन्तप । स्थितस्तत्रैव मनसा दह्यमानेन चान्वहम्
यदाऽऽगच्छद्राजसुता सेवार्थं मम सन्निधौ । अभवं दुःखसन्तप्तस्तदाहं वानराननः
दमयन्ती तु मां वीक्ष्य प्रफुल्लवदनाम्बुजा । शोकं वानरवक्त्रत्वान्न चकार कदाचन
एवं गच्छति काले तु सहसा पर्वतो मुनिः । कुर्वंस्तीर्थान्यनेकानि द्रष्टुं मां समुपागतः
मयातिमानितः प्रेम्णा पूजितश्च यथाविधि । आसीन आसने दिव्ये वीक्ष्य मां दुःखितो ह्यभूत्
कृतदारं वानरास्यं दीनं चिन्तातुरं भृशम् । दयावान्मामुवाचेदं पर्वतो मातुलं कृशम्
मया नारद कोपात्त्वं शप्तोऽसि मुनिसत्तम । निष्कृतिं तस्य शापस्य करोम्यद्य निशामय
भव त्वं चारुवदनो मम पुण्येन नारद । दृष्ट्वा राजसुतां चित्ते कृपा जाता ममाधुना
नारद उवाच मयापि प्रवणं चित्तं कृत्वा श्रुत्वास्य भाषितम् । अनुग्रहः कृतः सद्यस्तस्य शापस्य तत्क्षणात्
भागिनेय तवाप्यस्तु गमनं सुरसद्मनि । शापस्यानुग्रहः कामं कृतोऽयं पर्वताधुना
नारद उवाच जातोऽहं चारुवदनो वचनात्तस्य पश्यतः । राजपुत्री तु सन्तुष्टा मातरं प्राह सत्वरम्