क्वासौ भिक्षुः कुरूपः क्व दमयन्ती ममात्मजा । विपरीतमिदं कार्यं न विधेयं कदाचन
तामेकान्ते सुकेशान्ते निवारय हठात्सुताम् । युक्त्या मुनिरतां मुग्धां शास्त्रवृद्धानुसारया
इति भर्तृवचः श्रुत्वा जननी तामथाब्रवीत् । च ते रूपं मुनिः क्वासौ वानरास्योऽधनः पुनः
कथं मोहमवाप्तासि भिक्षुके चतुरा पुनः । लताकोमलदेहा त्वं भस्मरूक्षतनुस्त्वयम्
वार्ता वानरवक्त्रेण कथं युक्ता तवानघे । का प्रीतिः कुत्सिते पुंसि भविष्यति शुचिस्मिते
वरस्ते राजपुत्रोऽस्तु मा कुरु त्वं वृथा हठम् । पिता ते दुःखमाप्नोति श्रुत्वा धात्रीमुखाद्वचः
लग्नां बुबूलवृक्षेण कोमलां मालतीलताम् । दृष्ट्वा कस्य मनः खेदं चतुरस्य न गच्छति
दासेरकाय ताम्बूलीदलानि कोमलानि कः । ददाति भक्षणार्थाय मूर्खोऽपि धरणीतले
वीक्ष्य त्वां करसंलग्नां नारदस्य समीपतः । विवाहे वर्तमाने तु कस्य चेतो न दह्यति
कुमुखेन समं वार्ता न रुचिं जनयत्यतः । आमृतेस्तु कथं कालः क्षपितव्यस्त्वयामुना
नारद उवाच इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा । मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया
किं मुखेन च रूपेण मूर्खस्य च धनेन किम् । किं राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च
हरिण्योऽपि वने धन्या या नादेन विमोहिताः । मातः प्राणान्प्रयच्छन्ति धिङ्मूर्खान्मानुषान्भुवि
नारदो वेत्ति यां विद्यां मातः सप्तस्वरात्मिकाम् । तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल
मूर्खेण सह संवासो मरणं तत्क्षणे क्षणे । रूपवान्धनवांस्त्याज्यो गुणहीनो नरः सदा
धिङ्मैत्रीं मूर्खभूपाले वृथा गर्वसमन्विते । गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनी
स्वरज्ञो ग्रामवित्कामं मूर्च्छनाज्ञानभेदभाक् । दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्बलोऽपि वै
यथा नयति कैलासं गङ्गा चैव सरस्वती । तथा नयति कैलासं स्वरज्ञानविशारदः
स्वरमानं तु यो वेद स देवो मानुषोऽपि सन् । सप्तभेदं न यो वेद स पशुः सुरराडपि
मूर्च्छनातानमार्गं तु श्रुत्वा मोदं न याति यः । स पशुः सर्वथा ज्ञेयो हरिणाः पशवो न हि
वरं विषधरः सर्पः श्रुत्वा नादं मनोहरम् । अश्रोत्रोऽपि मुदं याति धिक्सकर्णांश्च मानवान्
बालोऽपि सुस्वरं गेयं श्रुत्वा मुदितमानसः । जायते किन्तु ते वृद्धा न जानन्ति धिगस्तु तान्
पिता मे किं न जानाति नारदस्य गुणान् बत । द्वितीयः सामगो नास्ति त्रिषु लोकेषु तत्समः
तस्मादसौ मया नूनं वृतः पूर्वं समागमात् । पश्चाच्छापवशाज्जातो वानरास्यो गुणाकरः
किन्नरा न प्रियाः कस्य भवन्ति तुरगाननाः । गानविद्यासमायुक्ताः किं मुखेन वरेण ह
पितरं ब्रूहि मे मातर्वृतोऽयं मुनिसत्तमः । तस्मात्त्वमाग्रहं त्यक्त्वा देहि तस्मै च मां मुदा
नारद उवाच इति पुत्र्या वचः श्रुत्वा राज्ञी राज्ञे न्यवेदयत् । आग्रहं सुन्दरी ज्ञात्वा सुताया नारदे मुनौ
विवाहं कुरु राजेन्द्र दमयन्त्याः शुभे दिने । मुनिना स च सर्वज्ञो वृतोऽसौ मनसानया
नारद उवाच इति सञ्चोदितो राज्ञ्या सञ्जयः पृथिवीपतिः । चकार विथिवत्सर्वं विधिं वैवाहिकं ततः
एवं दारग्रहं कृत्वा वानरास्यः परन्तप । स्थितस्तत्रैव मनसा दह्यमानेन चान्वहम्