प्रधानस्त्वब्रवीद्राजन् राजपुत्रा ह्यनेकशः । वर्तन्ते भुवि पुत्र्यास्ते योग्याः सर्वगुणान्विताः
यस्मिन् रुचिस्ते राजेन्द्र तमाहूय नृपात्मजम् । देहि कन्यां धनं भूरि हस्त्यश्वरथसंयुतम्
नारद उवाच पितुश्चिकीर्षितं ज्ञात्वा दमयन्ती तदा नृपम् । धात्र्या मुखेन वाक्यज्ञा तमुवाच रहः स्थितम्
धात्र्युवाच दमयन्ती महाराज पुत्री ते मामथाब्रवीत् । पितरं ब्रूहि धात्रेयि वचनान्मे सुखान्वितम्
मया वृतोऽथ मेधावी नारदो महतीयुतः । नादमोहितया कामं नान्यः कोऽपि प्रियो मम
कुरु मे वाञ्छितं तात विवाहं मुनिना सह । नान्यं वरिष्ये धर्मज्ञ नारदं तु पतिं विना
मग्नाहं नादसिन्धौ वै नक्रहीने रसात्मके । अक्षारे सुखसम्पूर्णे तिमिङ्गिलविवर्जिते
; नारदस्य मायादमयन्त्या सह विवाहवर्णनम् नारद उवाच तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः । भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम्
राजोवाच यदुक्तं वचनं कान्ते धात्र्या तत्तु त्वया श्रुतम् । वृतोऽयं नारदः कामं मुनिर्वानरवक्त्रभाक्
किमिदं चिन्तितं पुत्र्या बुद्धिहीनं विचेष्टितम् । कथमस्मै मया देया कन्या हरिमुखाय सा
क्वासौ भिक्षुः कुरूपः क्व दमयन्ती ममात्मजा । विपरीतमिदं कार्यं न विधेयं कदाचन
तामेकान्ते सुकेशान्ते निवारय हठात्सुताम् । युक्त्या मुनिरतां मुग्धां शास्त्रवृद्धानुसारया
इति भर्तृवचः श्रुत्वा जननी तामथाब्रवीत् । च ते रूपं मुनिः क्वासौ वानरास्योऽधनः पुनः
कथं मोहमवाप्तासि भिक्षुके चतुरा पुनः । लताकोमलदेहा त्वं भस्मरूक्षतनुस्त्वयम्
वार्ता वानरवक्त्रेण कथं युक्ता तवानघे । का प्रीतिः कुत्सिते पुंसि भविष्यति शुचिस्मिते
वरस्ते राजपुत्रोऽस्तु मा कुरु त्वं वृथा हठम् । पिता ते दुःखमाप्नोति श्रुत्वा धात्रीमुखाद्वचः
लग्नां बुबूलवृक्षेण कोमलां मालतीलताम् । दृष्ट्वा कस्य मनः खेदं चतुरस्य न गच्छति
दासेरकाय ताम्बूलीदलानि कोमलानि कः । ददाति भक्षणार्थाय मूर्खोऽपि धरणीतले
वीक्ष्य त्वां करसंलग्नां नारदस्य समीपतः । विवाहे वर्तमाने तु कस्य चेतो न दह्यति
कुमुखेन समं वार्ता न रुचिं जनयत्यतः । आमृतेस्तु कथं कालः क्षपितव्यस्त्वयामुना
नारद उवाच इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा । मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया
किं मुखेन च रूपेण मूर्खस्य च धनेन किम् । किं राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च
हरिण्योऽपि वने धन्या या नादेन विमोहिताः । मातः प्राणान्प्रयच्छन्ति धिङ्मूर्खान्मानुषान्भुवि
नारदो वेत्ति यां विद्यां मातः सप्तस्वरात्मिकाम् । तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल
मूर्खेण सह संवासो मरणं तत्क्षणे क्षणे । रूपवान्धनवांस्त्याज्यो गुणहीनो नरः सदा
धिङ्मैत्रीं मूर्खभूपाले वृथा गर्वसमन्विते । गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनी
स्वरज्ञो ग्रामवित्कामं मूर्च्छनाज्ञानभेदभाक् । दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्बलोऽपि वै
यथा नयति कैलासं गङ्गा चैव सरस्वती । तथा नयति कैलासं स्वरज्ञानविशारदः
स्वरमानं तु यो वेद स देवो मानुषोऽपि सन् । सप्तभेदं न यो वेद स पशुः सुरराडपि
मूर्च्छनातानमार्गं तु श्रुत्वा मोदं न याति यः । स पशुः सर्वथा ज्ञेयो हरिणाः पशवो न हि