एवं संसेव्यमानौ तु स्थितौ राज्ञो गृहे किल । वेदाध्ययनसंशीलावावां वेदव्रते रतौ
अहं वीणां करे कृत्वा साधयित्वा स्वरोत्तमम् । गायत्रं साम सुस्वादमगां कर्णरसायनम्
राजपुत्री तु तच्छ्रुत्वा सामगानं मनोहरम् । बभूव मयि रागाढ्या प्रीतियुक्ता विशारदा
दिने दिनेऽनुरागोऽस्या मयि वृद्धिं गतः परः । ममापि प्रीतियुक्तायां मनो जातं स्पृहापरम्
मम तस्य च सा कन्या भोजनादिषु कर्हिचित् । अकरोदन्तरं किञ्चित्सेवाभेदं रसान्विता
स्नानायोष्णजलं मह्यं पर्वताय च शीतलम् । दधि मह्यं तथा तक्रं पर्वतायाप्यकल्पयत्
शयनास्तरणं शुभ्रं मदर्थे पर्यकल्पयत् । प्रीत्या परमया यद्वत्पर्वताय न तादृशम्
विलोकयति मां प्रेम्णा सुन्दरी न च पर्वतम् । ततोऽस्यास्तादृशं दृष्ट्वा पर्वतः प्रेमकारणम्
मनसा चिन्तयामास किमेतदिति विस्मितः । पप्रच्छ मां रहः सम्यग्ब्रूहि नारद सर्वथा
राजपुत्री त्वयि प्रेम करोति मुदिता भृशम् । ददाति भक्ष्यभोज्यानि स्नेहयुक्ता समन्ततः
न तथा मयि भेदोऽत्र सन्देहं जनयत्यसौ । मन्यते त्वां पतिं कर्तुं सर्वथा सञ्जयात्मजा
तवापि तादृशं भावं जानामि लक्षणैरहम् । नेत्रवक्त्रविकारैश्च ज्ञायते प्रीतिकारणम्
सत्यं वद न ते मिथ्या वक्तव्यं वचनं मुने । स्वर्गतः समयं कृत्वा चलितौ संस्मराधुना
नारद उवाच पृष्टोऽहं पर्वतेनेदं कारणं तु हठाद्यदा । तदाहं ह्रीसमाक्रान्तः सञ्जातश्चाब्रुवं पुनः
पर्वतैषा विशालाक्षी पतिं मां कर्तुमुद्यता । ममापि मानसो भावो वर्ततेऽस्यां विशेषतः
तच्छ्रुत्वा वचनं सत्यं पर्वतः कोपसंयुतः । मामुवाच मुनिर्वाक्यं धिग्धिगिति पुनः पुनः
प्रथमं शपथान्कृत्वा वञ्चितोऽहं त्वया यतः । भव वानरवक्त्रस्त्वं शापाच्च मम मित्रधुक्
इति शप्तस्तु तेनाहं कुपितेन महात्मना । सहसा ह्यभवं क्रूरः शाखामृगमुखस्तदा
मयापि न कृता तस्मिन्क्षमा तु भगिनीसुते । सोऽपि शप्तोऽतिकोपाद्वै मा स्वर्गे ते गतिः किल
स्वल्पेऽपराधे यस्मान्मां शप्तवानसि पर्वत । तस्मात्तवापि मन्दात्मन् मृत्युलोके स्थितिः किल
पर्वतस्तु गतस्तस्मान्नगराद्विमना भृशम् । अहं वानरवक्त्रस्तु सञ्जातस्तत्क्षणादपि
दृष्ट्वा मां वानरं क्रूरं राजपुत्री विलक्षणा । विमनातीव सञ्जाता वीणाश्रवणलालसा
व्यास उवाच ततः किमभवद्ब्रह्मन् कथं शापान्निवर्तितः । मानुषास्यः पुनर्जातो भवान्ब्रूहि यथाविधि
पर्वतः क्व गतो भूयः सङ्गमो युवयोरभूत् । कदा कुत्र कथं सर्वं विस्तरेण वदस्व ह
नारद उवाच किं ब्रवीमि महाभाग मायायाश्चरितं महत् । दुःखितोऽहं भृशं तत्र पर्वते रुषिते गते
पुनः सेवापरात्यर्थं राजपुत्री ममाभवत् । गतेऽथ पर्वते कामं स्थितस्तत्रैव सद्मनि
अहं दुःखान्वितो दीनस्तथा वानरवन्मुखः । विशेषेण तु चिन्तार्तः किं मे स्यादिति चिन्तयन्
सञ्जयोऽथ सुतां दृष्ट्वा किञ्चित्प्रकटयौवनाम् । विवाहार्थे राजसुतामपृच्छत्सचिवं तदा
विवाहकालः सम्प्राप्तः सुताया मम साम्प्रतम् । योग्यं वरं मम ब्रूहि राजपुत्रं सुसम्मतम्
रूपौदार्यगुणैर्युक्तं शूरं सुकुलसम्भवम् । विवाहं विधिवत्पुत्र्याः करोमि किल साम्प्रतम्