; दमयन्तीविवाहप्रस्ताववर्णनम् व्यास उवाच इति मे वचनं श्रुत्वा नारदः परमार्थवित् । मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम्
नारद उवाच पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम् । संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान्
ब्रह्माविष्णुस्तथा रुद्रः सनकः कपिलस्तथा । मायया वेष्टिताः सर्वे भ्रमन्ति भववर्त्मनि
ज्ञानिनं मां जनो वेत्ति भ्रान्तोऽहं सर्वलोकवत् । शृणु मे पूर्ववृत्तान्तं प्रब्रवीमि सुनिश्चितम्
दुःखं मया यथा पूर्वमनुभूतं महत्तरम् । स्वकृतेन च मोहेन भार्यार्थे वासवीसुत
एकदा पर्वतश्चाहं देवलोकान्महीतलम् । प्राप्तो विलोकनार्थाय भारतं खण्डमुत्तमम्
भ्रमन्तौ सहितावुर्व्यां पश्यन्तौ तीर्थमण्डलम् । पावनानि च स्थानानि मुनीनामाश्रमाञ्छुभान्
शपथं देवलोकात्तु कृत्वा पूर्वं परस्परम् । चलितौ समयं चेमं सम्मन्त्र्य निश्चयेन वै
चित्तवृत्तिस्तु वक्तव्या यादृशी यस्य जायते । शुभा वाप्यशुभा वापि न गोप्तव्या कदाचन
भोजनेच्छा धनेच्छापि रतीच्छा वा भवेदपि । यादृशी यस्य चित्ते तु कथनीया परस्परम्
इत्यावां समयं कृत्वा स्वर्गाद्भूलोकमागतौ । एकचित्तौ मुनीभूतौ विचरन्तौ यथेच्छया
एवं भ्रमन्तौ लोकेऽस्मिन्ग्रीष्मान्ते समुपागते । सञ्जयस्य पुरं रम्यं सम्प्राप्तौ नृपते पुनः
तेन सम्पूजितौ भक्त्या राज्ञा सम्मानितौ भृशम् । स्थितौ तत्र गृहे तस्य चातुर्मास्यं महात्मनः
वार्षिकाश्चतुरो मासा दुर्गमाः पथि सर्वदा । तस्मादेकत्र विबुधैः स्थातव्यमिति निश्चयः
अष्टौ मासांस्तु प्रवसेत्सदा कार्यवशाद्द्विजः । वर्षाकाले न गन्तव्यं प्रवासे सुखमिच्छता
इति सञ्चिन्त्य मनसा सञ्जयस्य गृहे तदा । संस्थितौ मानितौ राज्ञा कृतातिथ्यौ महात्मना
दमयन्तीति विख्याता तस्य पुत्री महीपतेः । आज्ञप्ता परिचर्यार्थं सुदती सुन्दरी भृशम्
विवेकज्ञा विशालाक्षी राजपुत्री कृतोद्यमा । सेवनं सर्वकाले च व्यदधादुभयोरपि
स्नानार्थमुदकं काले भोजनं मृष्टमायतम् । मुखवासं तथा चान्यं यदिष्टं तद्ददाति सा
मनोऽभिलषितान्कामानुभयोरपि कन्यका । व्यजनासनशय्यादीन्वाञ्छितानप्यकल्पयत्
एवं संसेव्यमानौ तु स्थितौ राज्ञो गृहे किल । वेदाध्ययनसंशीलावावां वेदव्रते रतौ
अहं वीणां करे कृत्वा साधयित्वा स्वरोत्तमम् । गायत्रं साम सुस्वादमगां कर्णरसायनम्
राजपुत्री तु तच्छ्रुत्वा सामगानं मनोहरम् । बभूव मयि रागाढ्या प्रीतियुक्ता विशारदा
दिने दिनेऽनुरागोऽस्या मयि वृद्धिं गतः परः । ममापि प्रीतियुक्तायां मनो जातं स्पृहापरम्
मम तस्य च सा कन्या भोजनादिषु कर्हिचित् । अकरोदन्तरं किञ्चित्सेवाभेदं रसान्विता
स्नानायोष्णजलं मह्यं पर्वताय च शीतलम् । दधि मह्यं तथा तक्रं पर्वतायाप्यकल्पयत्
शयनास्तरणं शुभ्रं मदर्थे पर्यकल्पयत् । प्रीत्या परमया यद्वत्पर्वताय न तादृशम्
विलोकयति मां प्रेम्णा सुन्दरी न च पर्वतम् । ततोऽस्यास्तादृशं दृष्ट्वा पर्वतः प्रेमकारणम्
मनसा चिन्तयामास किमेतदिति विस्मितः । पप्रच्छ मां रहः सम्यग्ब्रूहि नारद सर्वथा
राजपुत्री त्वयि प्रेम करोति मुदिता भृशम् । ददाति भक्ष्यभोज्यानि स्नेहयुक्ता समन्ततः