अध्यापनाय पुत्राणां पुरे तस्मिन्निवासितः । कर्णः कुन्त्या परित्यक्तो जातमात्रः शिशुर्यदा
सूतेन पालितो नद्यां प्रान्तश्चाधिरथेन ह । दुर्योधनप्रियश्चाभूत्कर्णः शूरतमस्तथा
परस्परं विरोधोऽभूद्भीमदुर्योधनादिषु । धृतराष्ट्रस्तु सञ्चिन्त्य क्लेशं पुत्रेषु तेषु च
निवासं कल्पयामास पाण्डवानां महात्मनाम् । विरोधशमनायैव नगरे वारणावते
दुर्योधनेन तत्रैव द्रोहाज्जतुगृहाणि वै । कारितानि च दिव्यानि प्रेष्य मित्रं पुरोचनम्
श्रुत्वा जतुगृहे दग्धान्पाण्डवान्पृथया युतान् । पौत्रभावान्मुनिश्रेष्ठ मग्नोऽहं व्यसनार्णवे
शोकातुरो भृशं शून्ये वने पश्यन्नहर्निशम् । दृष्टा मयैकचक्रायां पाण्डवा दुःखकर्शिताः
ततस्तुष्टमनाश्चाहं जातः पार्थान्विलोक्य च । प्रेरितास्ते मया तूर्णं द्रुपदस्य पुरं प्रति
ते गतास्तत्र दुःखार्ता विप्रवेषधराः कृशाः । मृगचर्मपरीधानाः सभायां संस्थितास्तदा
कृत्वा पराक्रमं जिष्णुः स जित्वा द्रुपदात्मजाम् । चक्रुर्विवाहं मानिन्या पञ्चैव मातृवाक्यतः
दृष्ट्वा विवाहं तेषां तु मुदितोऽहं भृशं तदा । ततो नागाह्वये प्राप्ताः पाञ्चालीसहिता मुने
निवासं खाण्डवप्रस्थं धृतराष्ट्रेण कल्पितम् । पाण्डवानां द्विजश्रेष्ठ वसुदेवसुतेन वै
तर्पितः पावकस्तत्र विष्णुना सह जिष्णुना । राजसूयः कृतो यज्ञस्तदाहं मुदितोऽभवम्
दृष्ट्वाथ विभवं तेषां तथा मयकृतां सभाम् । दुर्योधनोऽतिसन्तप्तो दुरोदरमथाकरोत्
दुर्द्यूतवेदी शकुनिरनक्षज्ञश्च धर्मजः । हृतं राज्यं धनं सर्वं याज्ञसेनी च क्लेशिता
वने द्वादश वर्षाणि पाण्डवास्ते विवासिताः । पाञ्चालीसहितास्तेन दुःखं मे जनितं भृशम्
एवं नारद संसारे सुखदुःखात्मके भृशम् । निमग्नोऽहं भ्रमेणैव जानन् धर्मं सनातनम्
कोऽहं कस्य सुतास्तेऽमी का माता किं सुखं पुनः । येन मे हृदयं मोहाद्भ्रमतीति दिवानिशम्
किं करोमि क्व गच्छामि सन्तोषो नाधिगच्छति । दोलारूढं मनो मेऽत्र चञ्चलं न स्थिरं भवेत्
सर्वज्ञोऽसि मुनिश्रेष्ठ सन्देहं मे निवर्तय । तथा कुरु यथाहं स्यां सुखितो विगतज्वरः
; दमयन्तीविवाहप्रस्ताववर्णनम् व्यास उवाच इति मे वचनं श्रुत्वा नारदः परमार्थवित् । मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम्
नारद उवाच पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम् । संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान्
ब्रह्माविष्णुस्तथा रुद्रः सनकः कपिलस्तथा । मायया वेष्टिताः सर्वे भ्रमन्ति भववर्त्मनि
ज्ञानिनं मां जनो वेत्ति भ्रान्तोऽहं सर्वलोकवत् । शृणु मे पूर्ववृत्तान्तं प्रब्रवीमि सुनिश्चितम्
दुःखं मया यथा पूर्वमनुभूतं महत्तरम् । स्वकृतेन च मोहेन भार्यार्थे वासवीसुत
एकदा पर्वतश्चाहं देवलोकान्महीतलम् । प्राप्तो विलोकनार्थाय भारतं खण्डमुत्तमम्
भ्रमन्तौ सहितावुर्व्यां पश्यन्तौ तीर्थमण्डलम् । पावनानि च स्थानानि मुनीनामाश्रमाञ्छुभान्
शपथं देवलोकात्तु कृत्वा पूर्वं परस्परम् । चलितौ समयं चेमं सम्मन्त्र्य निश्चयेन वै
चित्तवृत्तिस्तु वक्तव्या यादृशी यस्य जायते । शुभा वाप्यशुभा वापि न गोप्तव्या कदाचन
भोजनेच्छा धनेच्छापि रतीच्छा वा भवेदपि । यादृशी यस्य चित्ते तु कथनीया परस्परम्