तथेति सा मया प्रोक्ता मुदिता जननी तदा । अम्बिकां प्रार्थयामास सुतार्थे काल आगते
पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् । कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने
वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा । गतोऽहं शयनागारे मातुस्तद्वचनान्निशि
दासी विचित्रवीर्यस्य रूपयौवनसंयुता । प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा
चन्दनारक्तदेहा सा पुष्पमालाविभूषिता । आयाता हावसंयुक्ता सुकेशी हंसगामिनी
पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता । प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने
रात्रौ संक्रीडितं प्रेम्णा तया सह मया भृशम् । वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद
सुभगे भविता पुत्रः सर्वलक्षणसंयुतः । सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः
स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् । माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम
विस्मृतः शुकसम्बन्धी विरहः शोककारणम् । दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान्
माया बलवती ब्रह्मन् दुस्त्यजा ह्यकृतात्मभिः । अरूपा च निरालम्बा ज्ञानिनामपि मोहिनी
मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम् । न मे चित्तं वने शान्तिमगान्मुनिवरोत्तम
दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे । पुनः सरस्वतीतीरे न चैकत्र व्यवस्थितिः
कदाचिच्चिन्तयन् ज्ञानं मानसे प्रतिभाति वै । केऽमी पुत्राः क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे
व्यभिचारोद्भवाः किं मे सुखदाः स्युः सुताः किल । माया बलवती मोहं वितनोति हि मानसे
जानन्मोहान्धकूपेऽस्मिन्पतितोऽहं मृषा मुने । इत्यकुर्वं रहस्तापं कदाचित्स्सुसमाहितः
राज्यं प्राप ततः पाण्डुर्बलवान्भीष्मसम्मतः । तदा मम मनो जातं प्रसन्नं सुतकारणात्
कुन्ती माद्री सुरूपे द्वे भार्ये तस्य बभूवतुः । शूरसेनसुता कुन्ती मद्रराजसुतापरा
स शापं द्विजतः प्राप्य कामिनीद्वयसंयुतः । पाण्डुर्निर्वेदमापन्नस्त्यक्त्वा राज्यं वनं गतः
तदा मामाविशच्छोकः श्रुत्वा पुत्रं वने स्थितम् । गतोऽहं तत्र यत्रासौ भार्याभ्यां सह संस्थितः
तमाश्वास्य वने पाण्डुं पुनः प्राप्तो गजाह्वये । धृतराष्ट्रं समाभाष्य ह्यगमं ब्रह्मजातटे
क्षेत्रजान्पञ्चपुत्रान्स समुत्पाद्य वनाश्रमे । धर्मतो वायुतः शक्रादश्विभ्यां पञ्च पाण्डवान्
युधिष्ठिरो भीमसेनस्तथैवार्जुन इत्यपि । कुन्तीपुत्राः समाख्याता धर्मानिलसुरेशजाः
नकुलः सहदेवश्च मद्रराजसुतासुतौ । कदाचित्तु रहो माद्रीं समालिङ्ग्य महीपतिः
मृतः शापात्तु मुनिभिः संस्कृतो हुतभुङ्मुखे । माद्री तत्र सती भूत्वा प्रविष्टा पतिना सह
स्थिता पुत्रयुता कुन्ती ज्वलिते जातवेदसि । मुनयः सुतसंयुक्तां शूरसेनसुतां तदा
दुःखितां पतिहीनां तामानिन्युर्गजसाह्वये । समर्पिताथ भीष्माय विदुराय महात्मने
श्रुत्वाहं सुखदुःखाभ्यां पीडितस्तु परात्मभिः । भीष्मेण पालिताः पुत्राः पाण्डोरिति विचिन्त्य ते
विदुरेण तथा प्रीत्या धृतराष्ट्रेण धीमता । दुर्योधनादयस्तस्य पुत्रा ये क्रूरमानसाः
एकत्र स्थितिमापन्ना विरोधं चकुरद्भुतम् । द्रोणाचार्यस्तु सम्माप्तस्तत्र भीष्मेण मानितः