नान्धो राजाधिकारी स्यात्तस्मात्पुत्र मनोहरम् । उत्पादय राजपुत्र्यां वचनान्मम मानद
इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये । यावदृतुमती जाता काशिराजसुता मुने
एकान्ते शयनागारे प्राप्ता सा मम सन्निधौ । लज्जमाना सुकेशान्ता स्वश्वश्रूवचनात्तदा
दृष्ट्वा मां जटिलं दान्तं तापसं रसवर्जितम् । सा स्वेदवदना जाता पाण्डुरा विमना भृशम्
कुपितोऽहं तदा दृष्ट्वा कामिनीं निशि सङ्गताम् । वेपमानां स्थितां पार्श्वे ह्यब्रवं तामहं रुषा
दृष्ट्वा मां यदि गर्वेण पाण्डुवर्णा समावृता । अतस्ते तनयः पाण्डुर्भविष्यति सुमध्यमे
इत्युक्त्वा निशि तत्रैव स्थितोऽम्बालिकया युतः । भुक्त्वा तां निशि निर्यातः स्थानमापृच्छ्य मातरम्
ततस्ताभ्यां सुतौ काले प्रसूतावन्धपाण्डुरौ । धृतराष्ट्रश्च पाण्डुश्च प्रथितौ सम्बभूवतुः
माता मे विमना जाता तादृशौ वीक्ष्य तौ सुतौ । ततः संवत्सरस्यान्ते मामाहूय तदाब्रवीत्
द्वैपायन सुतौ जातौ राज्ययोग्यौ न तादृशौ । अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम्
तथेति सा मया प्रोक्ता मुदिता जननी तदा । अम्बिकां प्रार्थयामास सुतार्थे काल आगते
पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् । कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने
वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा । गतोऽहं शयनागारे मातुस्तद्वचनान्निशि
दासी विचित्रवीर्यस्य रूपयौवनसंयुता । प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा
चन्दनारक्तदेहा सा पुष्पमालाविभूषिता । आयाता हावसंयुक्ता सुकेशी हंसगामिनी
पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता । प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने
रात्रौ संक्रीडितं प्रेम्णा तया सह मया भृशम् । वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद
सुभगे भविता पुत्रः सर्वलक्षणसंयुतः । सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः
स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् । माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम
विस्मृतः शुकसम्बन्धी विरहः शोककारणम् । दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान्
माया बलवती ब्रह्मन् दुस्त्यजा ह्यकृतात्मभिः । अरूपा च निरालम्बा ज्ञानिनामपि मोहिनी
मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम् । न मे चित्तं वने शान्तिमगान्मुनिवरोत्तम
दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे । पुनः सरस्वतीतीरे न चैकत्र व्यवस्थितिः
कदाचिच्चिन्तयन् ज्ञानं मानसे प्रतिभाति वै । केऽमी पुत्राः क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे
व्यभिचारोद्भवाः किं मे सुखदाः स्युः सुताः किल । माया बलवती मोहं वितनोति हि मानसे
जानन्मोहान्धकूपेऽस्मिन्पतितोऽहं मृषा मुने । इत्यकुर्वं रहस्तापं कदाचित्स्सुसमाहितः
राज्यं प्राप ततः पाण्डुर्बलवान्भीष्मसम्मतः । तदा मम मनो जातं प्रसन्नं सुतकारणात्
कुन्ती माद्री सुरूपे द्वे भार्ये तस्य बभूवतुः । शूरसेनसुता कुन्ती मद्रराजसुतापरा
स शापं द्विजतः प्राप्य कामिनीद्वयसंयुतः । पाण्डुर्निर्वेदमापन्नस्त्यक्त्वा राज्यं वनं गतः
तदा मामाविशच्छोकः श्रुत्वा पुत्रं वने स्थितम् । गतोऽहं तत्र यत्रासौ भार्याभ्यां सह संस्थितः