द्वैपायन विचारोऽत्र न कर्तव्यस्त्वयानघ । मातुर्वचनमादाय विहरस्व यथासुखम्
व्यास उवाच इति तस्य वचः श्रुत्वा मातुश्च प्रार्थनं तथा । निःशङ्कोऽहं तदा जातः कार्ये तस्मिञ्जुगुप्सिते
अम्बिकायां प्रवृत्तोऽहमृतुमत्यां मुदा निशि । मयि विमनसायां तु तापसे कुत्सिते भृशम्
शप्ता मया सा सुश्रोणी प्रसङ्गे प्रथमे तदा । अन्धस्ते भविता पुत्रो यतो नेत्रे निमीलिते
द्वितीयेऽह्नि मुनिश्रेष्ठ पृष्टो मात्रा रहः पुनः । भविष्यति सुतः पुत्र काशिराजसुतोदरे
मयोक्ता जननी तत्र व्रीडानम्रमुखेन ह । विनेत्रो भविता पुत्रो मातः शापान्ममैव हि
तया निर्भर्त्सितस्तत्र कठोरवचसा मुने । कथं पुत्र त्वया शप्ता पुत्रस्तेऽन्धो भविष्यति
; व्यासस्वकीयमोहवर्णनम् व्यास उवाच वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम् । दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा
अम्बालिका वधूर्धन्या काशिराजसुता सुत । भार्या विचित्रवीर्यस्य विधवा शोकसंयुता
सर्वलक्षणसम्पन्ना रूपयौवनशालिनी । तस्यां जनय सङ्गं त्वं कृत्वा पुत्रं सुसम्मतम्
नान्धो राजाधिकारी स्यात्तस्मात्पुत्र मनोहरम् । उत्पादय राजपुत्र्यां वचनान्मम मानद
इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये । यावदृतुमती जाता काशिराजसुता मुने
एकान्ते शयनागारे प्राप्ता सा मम सन्निधौ । लज्जमाना सुकेशान्ता स्वश्वश्रूवचनात्तदा
दृष्ट्वा मां जटिलं दान्तं तापसं रसवर्जितम् । सा स्वेदवदना जाता पाण्डुरा विमना भृशम्
कुपितोऽहं तदा दृष्ट्वा कामिनीं निशि सङ्गताम् । वेपमानां स्थितां पार्श्वे ह्यब्रवं तामहं रुषा
दृष्ट्वा मां यदि गर्वेण पाण्डुवर्णा समावृता । अतस्ते तनयः पाण्डुर्भविष्यति सुमध्यमे
इत्युक्त्वा निशि तत्रैव स्थितोऽम्बालिकया युतः । भुक्त्वा तां निशि निर्यातः स्थानमापृच्छ्य मातरम्
ततस्ताभ्यां सुतौ काले प्रसूतावन्धपाण्डुरौ । धृतराष्ट्रश्च पाण्डुश्च प्रथितौ सम्बभूवतुः
माता मे विमना जाता तादृशौ वीक्ष्य तौ सुतौ । ततः संवत्सरस्यान्ते मामाहूय तदाब्रवीत्
द्वैपायन सुतौ जातौ राज्ययोग्यौ न तादृशौ । अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम्
तथेति सा मया प्रोक्ता मुदिता जननी तदा । अम्बिकां प्रार्थयामास सुतार्थे काल आगते
पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् । कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने
वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा । गतोऽहं शयनागारे मातुस्तद्वचनान्निशि
दासी विचित्रवीर्यस्य रूपयौवनसंयुता । प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा
चन्दनारक्तदेहा सा पुष्पमालाविभूषिता । आयाता हावसंयुक्ता सुकेशी हंसगामिनी
पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता । प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने
रात्रौ संक्रीडितं प्रेम्णा तया सह मया भृशम् । वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद
सुभगे भविता पुत्रः सर्वलक्षणसंयुतः । सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः
स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् । माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम
विस्मृतः शुकसम्बन्धी विरहः शोककारणम् । दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान्