इत्युक्तः शशिना तत्र गुरुरत्यन्तदुःखितः । जगाम स्वगृहं तूर्णं चिन्ताविष्टः स्मरातुरः
दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः । ययावथ गृहं तस्य त्वरितश्चौषधीपतेः
स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषान्वितः । नाजगाम शशी तत्र चुकोपाति बृहस्पतिः
अयं मे शिष्यतां यातो गुरुपत्नीं तु मातरम् । जग्राह बलतोऽधर्मी शिक्षणीयो मयाधुना
उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः । किं शेषे भवने मन्द पापाचार सुराधम
देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम् । करोमि भस्मसान्नूनं न ददासि प्रियां मम
सूत उवाच क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः । श्रुत्वा द्विजपतिः शीघ्रं निर्गतः सदनाद्बहिः
तमुवाच हसन्सोमः किमिदं बहु भाषसे । न ते योग्यासितापाङ्गी सर्वलक्षणसंयुता
कुरूपां च स्वसदृशीं गृहाणान्यां स्त्रियं द्विज । भिक्षुकस्य गृहे योग्या नेदृशी वरवर्णिनी
रतिः स्वसदृशे कान्ते नार्याः किल निगद्यते । त्वं न जानासि मन्दात्मन् कामशास्त्रविनिर्णयम्
यथेष्टं गच्छ दुर्बुद्धे नाहं दास्यामि कामिनीम् । यच्छक्यं कुरु तत्कामं न देया वरवर्णिनी
कामार्तस्य च ते शापो न मां बाधितुमर्हति । नाहं ददे गुरो कान्तां यथेच्छसि तथा कुरु
सूत उवाच इत्युक्तः शशिना चेज्यश्चिन्तामाप रुषान्वितः । जगाम तरसा सद्म क्रोधयुक्तः शचीपतेः
दृष्ट्वा शतक्रतुस्तत्र गुरुं दुःखातुरं स्थितम् । पाद्यार्घ्याचमनीयाद्यैः पूजयित्वा सुसंस्थितः
पप्रच्छ परमोदारस्तं तथावस्थितं गुरुम् । का चिन्ता ते महाभाग शोकार्तोऽसि महामुने
केनापमानितोऽसि त्वं मम राज्ये गुरुश्च मे । त्वदधीनमिदं सर्वं सैन्यं लोकाधिपैः सह
बह्मा विष्णुस्तथा शम्भुर्ये चान्ये देवसत्तमाः । करिष्यन्ति च साहाय्यं का चिन्ता वद साम्प्रतम्
गुरुरुवाच शशिनापहृता भार्या तारा मम सुलोचना । न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः
किं करोमि सुरेशान त्वमेव शरणं मम । साहाय्यं कुरु देवेश दुःखितोऽस्मि शतक्रतो
इन्द्र उवाच मा शोकं कुरु धर्मज्ञ दासोऽस्मि तव सुव्रत । आनयिष्याम्यहं नूनं भार्यां तव महामते
प्रेषिते चेन्मया दूते न दास्यति मदाकुलः । ततो युद्धं करिष्यामि देवसैन्यैः समावृतः
इत्याश्वास्य गुरुं शक्रो दूतं वक्तृविचक्षणम् । प्रेषयामास सोमाय वार्ताशंसिनमद्भुतम्
स गत्वा शशिलोकं तु त्वरितः सुविचक्षणः । उवाच वचनेनैव वचनं रोहिणीपतिम्
प्रेषितोऽहं महाभाग शक्रेण त्वां विवक्षया । कथितं प्रभुणा यच्च तद्ब्रवीमि महामते
धर्मज्ञोऽसि महाभाग नीतिं जानासि सुव्रत । अत्रिः पिता ते धर्मात्मा न निद्यं कर्तुमर्हसि
भार्या रक्ष्या सर्वभूतैर्यथाशक्ति ह्यतन्द्रितैः । तदर्थे कलहः कामं भविता नात्र संशयः
यथा तव तथा तस्य यत्नः स्याद्दाररक्षणे । आत्मवत्सर्वभूतानि चिन्तय त्वं सुधानिधे
अष्टाविंशतिसंख्यास्ते कामिन्यो दक्षजाः शुभाः । गुरुपत्नीं कथं भोक्तुं त्वमिच्छसि सुधानिधे
स्वर्गे सदा वसन्त्येता मेनकाद्या मनोरमाः । भुंक्ष्व ताः स्वेच्छया कामं मुञ्च पत्नीं गुरोरपि
ईश्वरा यदि कुर्वन्ति जुगुप्सितमहन्तया । अज्ञास्तदनुवर्तन्ते तदा धर्मक्षयो भवेत्