सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् । आश्वासिता मयात्यर्थं भीष्मेण च महात्मना
विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः । कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह
काशिराजसुते रम्ये विजित्य पृथिवीपतीन् । भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते
सत्यवत्यै शुभे काले विवाहः परिकल्पितः । भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम्
पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् । अनपत्यो युवा धन्वी माता मे दुःखिताभवत्
काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा । पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः
ते ऊचतुः सतीं श्वश्रूं रुदतीं भृशदुःखिताम् । पतिना सहगामिन्यौ भविष्यावो हुताशने
पुत्रेण सह ते श्वश्रु स्वर्गे गत्वाथ नन्दने । सुखेन विहरिष्यावः पतिना सह संयुते
निवारिते तदा मात्रा वध्वौ तस्मान्महोद्यमात् । स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा
गाङ्गेयेन च मात्रा मे सम्मन्त्र्य च परस्परम् । कृत्वौर्ध्वदैहिकं सर्वं संस्मृतोऽहं गजाह्वये
स्मृतमात्रस्तु मात्रा वै ज्ञात्वा भावं मनोगतम् । तरसैवागतश्चाहं नगरं नागसाह्वयम्
प्रणम्य मातरं मूर्ध्ना संस्थितोऽथ कृताञ्जलिः । तामब्रवं सुतप्ताङ्गीं पुत्रशोकेन कर्शिताम्
मातस्त्वया किमाहूतो मनसाहं तपस्विनि । आज्ञापय महत्कार्ये दासोऽस्मि करवाणि किम्
त्वं मे तीर्थं परं मातर्देवश्च प्रथितः परः । आगतश्चिन्तितश्चात्र ब्रूहि कृत्यं तव प्रियम्
व्यास उवाच इत्युक्त्वाहं स्थितस्तत्र मातुरग्रे यदा मुने । तदा सा मामुवाचेदं पश्यन्ती भीष्ममन्तिके
पुत्र तेऽद्य मृतो भ्राता पीडितो राजयक्ष्मणा । तेनाहं दुःखिता जाता वंशच्छेदभयादिह
तस्मात्त्वमद्य मेधाविन् मयाहूतः समाधिना । गाङ्गेयस्य मतेनात्र पाराशर्यार्थसिद्धये
कुलं स्थापय नष्टं त्वं शन्तनोर्नामकारणात् । रक्ष मां दुःखतः कृष्ण वंशच्छेदोद्भवाद्द्रुतम्
काशिराजसुते भार्ये भ्रातुस्तव यवीयसः । साधोर्विचित्रवीर्यस्य रूपयौवनभूषिते
ताभ्यां सङ्गम्य मेधाविन् पुत्रोत्पादनकं कुरु । रक्षस्व भारतं वंशं नात्र दोषोऽस्ति कर्हिचित्
व्यास उवाच इति मातुर्वचः श्रुत्वा जातश्चिन्तातुरो ह्यहम् । लज्जयाऽऽकुलचित्तस्तामब्रवं विनयानतः
मातः पापाधिकं कर्म परदाराभिमर्शनम् । ज्ञात्वा धर्मपथं सम्यक्करोमि कथमादरात्
तथा यवीयसो भ्रातुर्वधूः कन्या प्रकीर्तिता । व्यभिचारं कथं कुर्यामधीत्य निगमानहम्
अन्यायेन न कर्तव्यं सर्वथा कुलरक्षणम् । न तरन्ति हि संसारात्पितरः पापकारिणः
लोकानामुपदेष्टा यः पुराणानां प्रवर्तकः । स कथं कुत्सितं कर्म ज्ञात्वा कुर्यान्महाद्भुतम्
पुनरुक्तो ह्यहं मात्रा रुदत्या भृशमन्तिके । पुत्रशोकातितप्ता या वंशरक्षणकाम्यया
पाराशर्य न ते दोषो वचनान्मम पुत्रक । गुरूणां वचनं तथ्यं सदोषमपि मानवैः
कर्तव्यमविचार्यैव शिष्टाचारप्रमाणतः । वचनं कुरु मे पुत्र न ते दोषोऽस्ति मानद
पुत्रस्य जननं कृत्वा सुखिनी कुरु मातरम् । विशेषेण तु सन्तप्तां मग्नां शोकार्णवे सुत
इति तां ब्रुवतीं श्रुत्वा तदा सुरनदीसुतः । मामुवाच विशेषज्ञः सूक्ष्मधर्मस्य निर्णये