एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् । सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्भुतम्
व्यास उवाच शृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् । यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात्
ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः । सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः
स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् । वादयन्महतीं वीणां स्वरतानसमन्विताम्
बृहद्रथन्तरादीनां साम्नां भेदाननेकशः । गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम्
शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् । निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा
तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् । अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम्
अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च । उपविष्टः समीपेऽहं मुनेरमिततेजसः
दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् । तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना
असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने । न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित्
द्वीपे जातो जनन्याहं संत्यक्तस्तत्क्षणादपि । अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः
तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् । पुत्रकामेन देवर्षे शङ्करः समुपासितः
ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः । पाठितस्तु मया सम्यग्वेदानां सार आदितः
स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् । लोकाल्लोकान्तरं साधो वचनात्तव बोधितः
ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् । मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम्
पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः । जानन्मिथ्येति संसारं मायापाशनियन्त्रितः
ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् । स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे
शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता । पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता
चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता । कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः
ततः सत्यवती माता निमग्ना शोकसागरे । चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा
सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् । आश्वासिता मयात्यर्थं भीष्मेण च महात्मना
विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः । कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह
काशिराजसुते रम्ये विजित्य पृथिवीपतीन् । भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते
सत्यवत्यै शुभे काले विवाहः परिकल्पितः । भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम्
पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् । अनपत्यो युवा धन्वी माता मे दुःखिताभवत्
काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा । पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः
ते ऊचतुः सतीं श्वश्रूं रुदतीं भृशदुःखिताम् । पतिना सहगामिन्यौ भविष्यावो हुताशने
पुत्रेण सह ते श्वश्रु स्वर्गे गत्वाथ नन्दने । सुखेन विहरिष्यावः पतिना सह संयुते
निवारिते तदा मात्रा वध्वौ तस्मान्महोद्यमात् । स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा
गाङ्गेयेन च मात्रा मे सम्मन्त्र्य च परस्परम् । कृत्वौर्ध्वदैहिकं सर्वं संस्मृतोऽहं गजाह्वये