समेतः कामिनीभ्यां तु ययौ तत्पितुराश्रमम् । राजपुत्रीं तथायातां श्रुत्वा प्रेमसमन्वितः
प्रययौ सम्मुखस्तूर्णं सचिवैः परिवेष्टितः । बहुभिर्दिवसैर्दृष्टा पुत्री सा मलिनाम्बरा
यशोवत्या तु वृत्तान्तः कथितो विस्तरात्पुनः । एकवीरं मिलित्वासौ गृहमानीय चादरात्
पुण्येऽह्नि कारयामास विवाहं विधिपूर्वकम् । पारिबर्हं ततो दत्त्वा सम्पूज्य विधिवत्तदा
पुत्रीं विसर्जयामास यशोवत्या समन्विताम् । एवं विवाहे संवृत्ते रमापुत्रो मुदान्वितः
गृहं प्राप्य बहून्भोगाम्बुभुजे प्रियया समम् । बभूव तस्यां पुत्रस्तु कृतवीर्याभिधः किल । तत्सुतः कार्तवीर्यस्तु वंशोऽयं कथितो मया
; अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् राजोवाच भगवंस्त्वन्मुखाम्भोजाच्च्युतं दिव्यकथारसम् । न तृप्तिमधिगच्छामि पिबंस्तु सुधया समम्
विचित्रमिदमाख्यानं कथितं भवता मम । हैहयानां समुत्पत्तिर्विस्तराद्विस्मयप्रदा
परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः । देवदेवो जगन्नाथः सृष्टिस्थित्यन्तकारकः
सोऽप्यश्वभावमापन्नो भगवान्हरिरच्युतः । परतन्त्रः कथं जातः स्वतन्त्रः पुरुषोत्तमः
एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् । सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्भुतम्
व्यास उवाच शृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् । यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात्
ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः । सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः
स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् । वादयन्महतीं वीणां स्वरतानसमन्विताम्
बृहद्रथन्तरादीनां साम्नां भेदाननेकशः । गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम्
शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् । निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा
तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् । अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम्
अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च । उपविष्टः समीपेऽहं मुनेरमिततेजसः
दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् । तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना
असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने । न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित्
द्वीपे जातो जनन्याहं संत्यक्तस्तत्क्षणादपि । अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः
तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् । पुत्रकामेन देवर्षे शङ्करः समुपासितः
ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः । पाठितस्तु मया सम्यग्वेदानां सार आदितः
स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् । लोकाल्लोकान्तरं साधो वचनात्तव बोधितः
ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् । मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम्
पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः । जानन्मिथ्येति संसारं मायापाशनियन्त्रितः
ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् । स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे
शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता । पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता
चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता । कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः
ततः सत्यवती माता निमग्ना शोकसागरे । चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा