गच्छध्वं राक्षसाः सर्वे सम्मुखाः शस्त्रपाणयः । तानाज्ञाप्य कालकेतुः पप्रच्छ प्रणयान्वितः
एकावलीं समीपस्थां विवशां भृशदुःखिताम् । कोऽयमायाति तन्वङ्गि पिता ते वापरः पुमान्
त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि । पिता ते यदि सम्प्राप्तो नेतुं त्वां विरहातुरः
ज्ञात्वा ते पितरं सम्यक् संग्रामं न करोम्यहम् । आनयित्वा गृहे पूजां रत्नैर्वस्त्रैर्हयैः शुभैः
करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा । अन्यश्चेद्यदि सम्प्राप्तस्तं हन्मि निशितैः शरैः
आनीतः किल कालेन मरणाय महात्मना । तस्माद्वद विशालाक्षि कोऽयमायाति मन्दधीः
अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम् । एकावल्युवाच न जानेऽहं महाभाग कोऽयमायाति सत्वरः
नमेऽस्ति विदितः कोऽपि स्थितायास्तव बन्धने । नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः
किमर्थमिह चायाति नाहं वेद विनिश्चयम् । दैत्य उवाच एवं वदन्त्यमी दूता वयस्या ते यशोवती
समानीय च तं वीरमागतेति कृतोद्यमा । क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये
नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् । व्यास उवाच एतस्मिन्नन्तरे दूतास्तत्रान्ये वै समागताः
ते होचुस्त्वरिता भीताः कालकेतुं गृहे स्थितम् । किं स्वस्थोऽसि महाराज समीपे सैन्यमागतम्
निर्गच्छ नगरात्तूर्णं सैन्येन महताऽऽवृतः । इति तेषां वचः श्रुत्वा कालकेतुर्महाबलः
रथमारुह्य त्वरितो निर्ययौ स्वपुराद्बहिः । एकवीरोऽपि सहसा हयारूढः प्रतापवान्
आगतस्तत्र कामिन्या विरहेण समाकुलः । युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् । वर्तमाने तदा युद्धे कातराणां भयावहे
गदया ताडयामास दैत्यं सिन्धुसुतासुतः । स गतासुः पपातोर्व्यां वज्राहत इवाचलः
पलायित्वा गताः सर्वे राक्षसा भयपीडिताः । यशोवती ततो गत्वा वेगादेकावलीं तदा
उवाच मधुरां वाणीं विस्मिता मुदिता भृशम् । एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः
एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् । स्कन्धावारेऽप्यसौ राजा तिष्ठत्यद्य श्रमातुरः
दर्शनं काङ्क्षमाणस्ते श्रुतरूपगुणस्तव । पश्य तं कुटिलापाङ्गि मनोभवसमं नृपम्
कथिता त्वं मया पूर्वं तस्याग्रे जाह्नवीतटे । पूर्णानुरागः सञ्जातस्तेनासौ विरहातुरः
वाञ्छति त्वां चारुरूपां द्रष्टुं नृपतिनन्दनः । सा तस्या वचनं श्रुत्वा गमनाय मनो दधे
लज्जमाना भृशं भीत्या कौमारं प्राप्तया तया । कथं तस्य मुखं द्रक्ष्ये कुमारी ह्यवशा भृशम्
स मां गृह्णाति कामार्त इति चिन्ताकुला सती । यशोवत्या युता तत्र नरयानस्थिता ययौ
स्कन्धावारेऽतिमलिना मलिनाम्बरधारिणी । तामागतां विशालाक्षीं दृष्ट्वा राजसुतोऽब्रवीत्
दर्शनं देहि तन्वङ्गि तृषिते नयने मम । कामातुरं च तं वीक्ष्य तां च लज्जाभरावृताम्
नीतिज्ञा शिष्टमार्गज्ञा तमुवाच यशोवती । राजपुत्र पिताप्यस्यास्त्वामेनां दातुमिच्छति
एषापि त्वद्वशा नूनं भविता सङ्गमस्तव । कालं प्रतीक्ष्य राजेन्द्र नयैनां पितुरन्तिकम्
स विवाहविधिं कृत्वा दास्यतीति विनिश्चयः । स तस्या वचनं तथ्यं मत्वा सैन्यसमन्वितः