दत्तात्रेयाद्दैवयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् । योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिधम्
तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा । तया सह जगामाशु पुरं तस्य सुदुर्गमम्
रक्षितं राक्षसैघोरैः पातालमिव पन्नगैः । यशोवत्या च सैन्येन महता संयुतो नृपः
तमायान्तं समालोक्य दूतास्तस्य भयातुराः । क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः
तमूचुः सहसा मत्वा राक्षसं काममोहितम् । एकावलीसमीपस्थं कुर्वन्तं विनयान्बहून्
दूता ऊचुः राजन् यशोवती नारी कामिन्याः सहचारिणी । आयाति सह सैन्येन राजपुत्रेण संयुता
जयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् । आगच्छति बलोन्मत्तो वाहिनीसहितः किल
संयत्तो भव राजेन्द्र संग्रामः समुपस्थितः । देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम्
इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः । सज्जो भव महीपाल दुन्दुभिं घोषयाशु वै
व्यास उवाच तेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूर्च्छितः । राक्षसान्प्रेरयामास सायुधान्सबलान्वहून्
गच्छध्वं राक्षसाः सर्वे सम्मुखाः शस्त्रपाणयः । तानाज्ञाप्य कालकेतुः पप्रच्छ प्रणयान्वितः
एकावलीं समीपस्थां विवशां भृशदुःखिताम् । कोऽयमायाति तन्वङ्गि पिता ते वापरः पुमान्
त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि । पिता ते यदि सम्प्राप्तो नेतुं त्वां विरहातुरः
ज्ञात्वा ते पितरं सम्यक् संग्रामं न करोम्यहम् । आनयित्वा गृहे पूजां रत्नैर्वस्त्रैर्हयैः शुभैः
करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा । अन्यश्चेद्यदि सम्प्राप्तस्तं हन्मि निशितैः शरैः
आनीतः किल कालेन मरणाय महात्मना । तस्माद्वद विशालाक्षि कोऽयमायाति मन्दधीः
अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम् । एकावल्युवाच न जानेऽहं महाभाग कोऽयमायाति सत्वरः
नमेऽस्ति विदितः कोऽपि स्थितायास्तव बन्धने । नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः
किमर्थमिह चायाति नाहं वेद विनिश्चयम् । दैत्य उवाच एवं वदन्त्यमी दूता वयस्या ते यशोवती
समानीय च तं वीरमागतेति कृतोद्यमा । क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये
नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् । व्यास उवाच एतस्मिन्नन्तरे दूतास्तत्रान्ये वै समागताः
ते होचुस्त्वरिता भीताः कालकेतुं गृहे स्थितम् । किं स्वस्थोऽसि महाराज समीपे सैन्यमागतम्
निर्गच्छ नगरात्तूर्णं सैन्येन महताऽऽवृतः । इति तेषां वचः श्रुत्वा कालकेतुर्महाबलः
रथमारुह्य त्वरितो निर्ययौ स्वपुराद्बहिः । एकवीरोऽपि सहसा हयारूढः प्रतापवान्
आगतस्तत्र कामिन्या विरहेण समाकुलः । युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् । वर्तमाने तदा युद्धे कातराणां भयावहे
गदया ताडयामास दैत्यं सिन्धुसुतासुतः । स गतासुः पपातोर्व्यां वज्राहत इवाचलः
पलायित्वा गताः सर्वे राक्षसा भयपीडिताः । यशोवती ततो गत्वा वेगादेकावलीं तदा
उवाच मधुरां वाणीं विस्मिता मुदिता भृशम् । एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः
एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् । स्कन्धावारेऽप्यसौ राजा तिष्ठत्यद्य श्रमातुरः