दत्तोऽस्मै सोऽपि सततं मामुपास्तेऽतिभक्तितः । मय्यासक्तमतिर्नित्यं मम पूजापरायणः
मामेव सर्वभूतेषु ध्यायन्नास्ते च मत्परः । स ते दुःखविनाशं वै करिष्यति महामतिः
मासुतो विहरंस्तत्र तव त्राता भविष्यति । हत्वा तं राक्षसं घोरं मोचयिष्यति मानिनीम्
एकावलीमेकवीरः सर्वशास्त्रविशारदः । पश्चात्सैव पतिः कार्यस्त्वया राजसुतः शुभः
इत्युक्त्वान्तर्दधे देवी प्रबुद्धाहं तदैव हि । कथितं स्वप्नवृत्तान्तं देव्याश्चाराधनं तथा
प्रसन्नवदना जाता श्रुत्वा सा कमलेक्षणा । विशेषेण च सन्तुष्टा मामुवाच शुचिस्मिता
गच्छ तत्र त्वरायुक्ता कुरु कार्यं मम प्रिये । सत्यवाक्या भगवती सावां मोक्षं विधास्यति
इत्याज्ञप्ता तया चाहं सख्या वै प्रेमयुक्तया । मत्वोपसरणं युक्तं तस्मात्स्थानात्तदा नृप
चालिताहं ततः शीघ्रं महादेवीप्रसादतः । मार्गज्ञानं शीघ्रगतिर्मया प्राप्ता नृपात्मज
इत्येतत्कथितं सर्वं कारणं मम दुःखजम् । कस्त्वं कस्य सुतश्चेति वद वीर यथा तथा
; एकवीरैकावल्योर्विवाहवर्णनम् व्यास उवाच तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् । प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते
राजोवाच रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः । हेहयोऽहं चैकवीरनाम्ना सिन्धुसुतासुतः
मनो मे यत्त्वया नूनं परतन्त्रं कृतं किल । किं करोमि क्व गच्छामि विरहेणातिपीडितः
प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया । तेन मे विह्वलं जातं कामबाणहतं मनः
ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः । यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत्
एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः । हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः
तेन वाक्येन तन्वङ्गि भृत्योऽहमधुना कृतः । त्वया तस्याः सुकेशान्ते ब्रूहि किं करवाणि वाम्
स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः । गतिर्मे नास्ति गमने पुरे तस्मिन्सुलोचने
वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा । प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी
हत्वा तं राक्षसं क्रूरं मोचयिष्यामि साम्प्रतम् । विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम्
विमुक्तदुःखां कृत्वाऽऽशु प्रापयिष्यामि ते पुरम् । पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम्
पश्चाद्विवाहं कर्तासौ राजा पुत्र्याः परन्तपः । एवं ते मनसः कामो मम चापि प्रियंवदे
भविष्यति स सम्पूर्णः साधनेन तवाधुना । दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम्
यथा हन्मि दुराचारं परदारापहारकम् । तथा कुरु प्रियं कर्तुं शक्तासि वरवर्णिनि
मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च । व्यास उवाच तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती
तमुवाच रमापुत्रं गमनोपायमादरात् । मन्त्रं गृहाण राजेन्द्र भगवत्यास्तु सिद्धिदम्
दर्शयिष्यामि तस्याद्य पुरं राक्षसपालितम् । सज्जो भव महाभाग गमनाय मया सह
सैन्येन महता युक्तस्तत्र युद्धं भविष्यति । कालकेतुर्महावीरो राक्षसैर्बलिभिर्वृतः
तस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह । दर्शयिष्यामि ते मार्गं पुरस्यास्य दुरात्मनः
हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् । श्रुत्वा तद्वचनं वीरो मन्त्रं जग्राह सत्वरः