पुनरुक्तं मया वाक्यं श्रुत्वा तद्भाषितं खरम् । नाहं क्षमाप्रियं वक्तुं त्वमेनां कथय प्रभो
इत्युक्ते वचने दुष्टो मदनक्षतमानसः । उवाच विनयादेनां सखीं क्षामोदरीं प्रियाम्
कृशोदरि त्वया मन्त्रो निक्षिप्तोऽस्ति ममोपरि । तेन मे हृदयं कान्ते हृतं ते वशतां गतम्
तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः । भज मां कामबाणेन पीडितं विवशं भृशम्
यौवनं याति रम्भोरु चञ्चलं दुर्लभं तदा । सफलं कुरु कल्याणि पतिं मां परिरभ्य च
एकावल्युवाच पित्राहं कल्पिता पूर्वं दातुं राजसुताय वै । हैहयस्तु महाभाग स मया मनसा वृतः
कथमन्यं भजे कान्तं त्यक्त्वा धर्मं सनातनम् । कन्याधर्मं विहायाद्य वेत्सि शास्त्रविनिश्चयम्
यस्मै दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् । परतन्त्रा सदा कन्या न स्वातन्त्र्यं कदाचन
इत्युक्तोऽपि तया पापी विरराम न मोहितः । न मुमोच विशालाक्षीं मां च पार्श्वस्थितां तथा
पातालविवरे तस्य पुरं परमसङ्कटे । राक्षसै रक्षितं दुर्गं मण्डितं परिखावृतम्
तत्र तिष्ठति दुःखार्ता सखी मे प्राणवल्लभा । तेनाहं विरहेणात्र रारटीमि सुदुःखिता
एकवीर उवाच कथं त्वमत्र सम्प्राप्ता पुरात्तस्य दुरात्मनः । विस्मयो मे महानत्र तत्त्वं ब्रूहि वरानने
त्वया च कथितं वाक्यं सन्दिग्धं भाति भामिनि । हैहयार्थे कल्पिता सा पित्रेति मम साम्प्रतम्
हैहयो नाम राजाहं नान्योऽस्ति पृथिवीपतिः । मदर्थे कथिता सा किं सखी तव सुलोचना
एतन्मे संशयं सुभ्रु छेत्तुमर्हसि भामिनि । अहं तामानयिष्यामि तं हत्वा राक्षसाधमम्
स्थानं दर्शय मे तस्य यदि जानासि सुव्रते । राज्ञे निवेदितं किं वा तत्पित्रे चातिदुःखिता
यस्यैषा वल्लभा पुत्री न किं जानाति तां हृताम् । नोद्यमः किं कृतस्तेन ततो मोचनहेतवे
बन्दीकृतां सुतां ज्ञात्वा कथं तिष्ठति सुस्थिरः । असमर्थो नृपः किं वा कारणं ब्रूहि सत्वरम्
त्वया मेऽपहृतं चेतो गुणानुक्त्वा ह्यमानुषान् । सख्याः पङ्कजपत्राक्षि कृतः कामवशो भृशम्
कदा पश्यामि तां कान्तां मोचयित्वातिसङ्कटात् । इति मे हृदयं चाद्य करोत्यतिमनोरथम्
ब्रूहि मे गमनोपायं पुरे तस्यातिदुर्गमे । कथं त्वमागता तस्मात्सङ्कटादत्र तद्वद
यशोवत्युवाच बालभावान्मया मन्त्रो भगवत्या विशांपते । प्राप्तोऽस्ति ब्राह्मणात्सिद्धात्सबीजध्यानपूर्वकः
तत्रावस्थितया राजन् मया चित्ते विचारितम् । आराधयामि सततं चण्डिकां चण्डविक्रमाम्
सा देवी सेविता कामं बन्धमोक्षं करिष्यति । भक्तानुकम्पिनी शक्तिः समर्था सर्वसाधने
या विश्वं सृजते शक्त्या पालयत्येव सा पुनः । कल्पान्ते संहरत्येव निराकारा निराश्रया
इति सञ्चिन्त्य मनसा देवीं विश्वेश्वरीं शिवाम् । ध्यात्वा रक्ताम्बरां सौम्यां सुरक्तनयनां हृदि
संस्मृत्य मनसा रूपं मन्त्रजाप्यपराभवम् । उपासिता मया देवी मासमेकं समाधिना
स्वप्ने मम समायाता भक्तिभावेन तोषिता । मामाहामृतया वाचा किं सुप्तासीति चण्डिका
उत्तिष्ठ याहि तरसा गङ्गातीरं मनोहरम् । आगमिष्यति तत्रासौ हैहयो नृपपुङ्गवः
एकवीरो महाबाहुः सर्वशत्रुविमर्दनः । दत्तात्रेयेण मन्मन्त्रो महाविद्याभिधः परः