दृष्टा चैकावली तेन रूपयौवनशालिनी । द्वितीया कामपत्नीव क्रीडमाना सुपङ्कजैः
मयोक्तैकावली राजन् कोऽयं दैत्यः समागतः । गच्छावो रक्षपालानां मध्ये पङ्कजलोचने
विमृश्यैव सखी चाहं त्वरयैव गते भयात् । मध्ये वै सैनिकानां तु सायुधानां नृपात्मज
कालकेतुस्तु तां दृष्ट्वा मोहिनीं मदनातुरः । गदां गुर्वी गृहीत्वा तु धावमानः समागतः
रक्षकान्दूरतः कृत्वा जग्राहाम्बुजलोचनाम् । त्रस्तां वेपथुसंयुक्तां क्रन्दमानां कृशोदरीम्
त्यजैनां मां गृहाणेति मया चोक्तोऽपि दानवः । न मां जग्राह कामार्तस्तां गृहीत्वा विनिःसृतः
तिष्ठ तिष्ठेति भाषन्तो रक्षकास्तं महाबलम् । प्रतिषिध्य तु संग्रामं चक्रुर्विस्मयकारकम्
तस्यापि राक्षसाः क्रूराः सर्वतः शस्त्रपाणयः । युयुधू रक्षकैः सार्धं स्वामिकार्ये कृतोद्यमाः
संग्रामस्तु तदा जातः कालकेतोस्तथा रणे । निहत्य रक्षकान्सर्वान्गृहीत्वैनां महाबलः
युक्तो राक्षससैन्येन निर्जगाम पुरं प्रति । वीक्ष्य तां रुदतीं बालां गृहीता दानवेन तु
पृष्ठतोऽहं गता तत्र यत्र नीता सखी मम । विक्रोशन्ती यथा सा मां पश्येदिति पदानुगा
सापि मामागतां वीक्ष्य किञ्चित्स्वस्थाभवत्तदा । गताहं तत्समीपे तु तामाभाष्य पुनः पुनः
सा मां प्राप्यातिदुःखार्ता स्तम्भस्वेदसमाकुला । कण्ठे गृहीत्वा मां भूप रुरोद भृशदुःखिता
स मामाह कालकेतुः प्रीतिपूर्वमिदं वचः । समाश्वासय भीतां त्वं सखीं चञ्चललोचनाम्
प्राप्तं ममाद्य नगरं देवलोकसमं प्रिये । दासोऽस्मि तव रत्या हि कस्मात्क्रन्दसि कातरा
कथयैनां सखीं तेऽद्य स्वस्था भव सुलोचने । इत्युक्त्वा मां सखीपार्श्वे समारोप्य रथोत्तमे
जगाम तरसा दुष्टः पुरे स्वस्य मनोहरे । सैन्येन महता युक्तः प्रफुल्लवदनाम्बुजः
एकावली तथा मां च संस्थाप्य धवले गृहे । राक्षसान् गृहरक्षार्थं कल्पयामास कोटिशः
द्वितीये दिवसे सोऽथ मामुवाच रहो नृप । प्रबोधय सखीं बालां शोचन्तीं विरहातुराम्
पत्नी मे भव सुश्रोणि सुखं भुङ्क्षव यथेप्सितम् । राज्यं त्वदीयं चन्द्रास्ये सेवकोऽहं सदा तव
पुनरुक्तं मया वाक्यं श्रुत्वा तद्भाषितं खरम् । नाहं क्षमाप्रियं वक्तुं त्वमेनां कथय प्रभो
इत्युक्ते वचने दुष्टो मदनक्षतमानसः । उवाच विनयादेनां सखीं क्षामोदरीं प्रियाम्
कृशोदरि त्वया मन्त्रो निक्षिप्तोऽस्ति ममोपरि । तेन मे हृदयं कान्ते हृतं ते वशतां गतम्
तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः । भज मां कामबाणेन पीडितं विवशं भृशम्
यौवनं याति रम्भोरु चञ्चलं दुर्लभं तदा । सफलं कुरु कल्याणि पतिं मां परिरभ्य च
एकावल्युवाच पित्राहं कल्पिता पूर्वं दातुं राजसुताय वै । हैहयस्तु महाभाग स मया मनसा वृतः
कथमन्यं भजे कान्तं त्यक्त्वा धर्मं सनातनम् । कन्याधर्मं विहायाद्य वेत्सि शास्त्रविनिश्चयम्
यस्मै दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् । परतन्त्रा सदा कन्या न स्वातन्त्र्यं कदाचन
इत्युक्तोऽपि तया पापी विरराम न मोहितः । न मुमोच विशालाक्षीं मां च पार्श्वस्थितां तथा
पातालविवरे तस्य पुरं परमसङ्कटे । राक्षसै रक्षितं दुर्गं मण्डितं परिखावृतम्