रैभ्यो नाम महाराजः सन्तानरहितो भृशम् । तस्य भार्या सुविख्याता रुक्मरेखेति नामतः
सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता । अपुत्रा दुःखिता कान्तमित्युवाच पुनः पुनः
किं जीवितेन मे नाथ धिग्वृथा जीवितं मम । वन्ध्यायाः सुखहीनाया ह्यपुत्राया धरातले
इत्येवं भार्यया भूपः प्रेरितो मखमुत्तमम् । चकार ब्राह्मणांस्तज्ज्ञानाहूय विधिवत्तदा
पुत्रकामो धनं भूरि ददावथ यथोदितम् । हूयमाने घृतेऽत्यर्थं पावकादतिसुप्रभात्
आविर्बभूव चार्वङ्गी कन्यका शुभलक्षणा । बिम्बोष्ठी सुदती सुभ्रूः पूर्णचन्द्रनिभानना
कनकाभा सुकेशान्ता रक्तपाणितला मृदुः । सुरक्तनयना तन्वी रक्तपादतला भृशम्
हुताशनात्समुद्भूता होत्रा सा स्वीकृता तदा । होता प्रोवाच राजानं गृहीत्वा तां सुमध्यमाम्
राजन् पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम् । एकावलीव सम्भूता हूयमानाद्धुताशनात्
नाम्ना चैकावली लोके ख्याता पुत्री भविष्यति । सुखितो भव भूपाल पुत्र्या पुत्रसमानया
सन्तोषं कुरु राजेन्द्र दत्ता देवेन विष्णुना । होतुर्वाक्यं नृपः श्रुत्वा दृष्ट्वा तां कन्यकां शुभाम्
जग्राह परमप्रीतो होत्रा दत्तां सुसम्मताम् । गृहीत्वा नृपतिस्तां तु ददौ पत्न्यै वराननाम्
आभाष्य रुक्मरेखायै गृहाण सुभगे सुताम् । सा तां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम्
जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथासुखम् । चकार मङ्गलं कर्म जातकर्मादिकं शुभम्
पुत्रजन्मसमुत्थं यत्तत्सर्वं विधिवत्ततः । समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम्
दत्त्वा विसृज्य विप्रेन्द्रान् मुदं प्राप महीपतिः । दिने दिनेऽसितापाङ्गी पुत्रवृद्ध्या भृशं बभौ
मुदं च परमां प्राप नृपभार्या सुतान्विता । उत्सवस्तद्दिने तस्य प्रवृत्तः सुतजन्मजः
पुत्री पुत्रसमात्यर्थं बभूव वल्लभा किल । राज्ञो मन्त्रिसुता चाहं सुबुद्धे मन्मथाकृते
यशोवती च मे नाम समानं वय आवयोः । वयस्याहं कृता राज्ञा क्रीडनाय तया सह
सदा सहचरी जाता प्रेमयुक्ता दिवानिशम् । एकावली गन्धवन्ति यत्र पद्मानि पश्यति
तत्र सा रमते बाला नान्यत्र सुखमाप्नुयात् । सुदूरे जाह्नवीतीरे भवन्ति कमलान्यपि
रममाणा तत्र याता मत्समेता सखीयुता । मया निवेदितं राजन् पुत्री ते कमलाकरान्
प्रेक्षमाणातिदूरे सा प्रयाति निर्जने वने । निषेधिताथ पित्रासौ गृहे कृत्वा जलाशयान्
कमलान् वापयित्वाथ पुष्पितान् भ्रमरावृतान् । तथापि निर्ययौ बाला कमलासक्तचेतना
तदा राज्ञा रक्षपालाः प्रेरिताः शस्त्रपाणयः । एवं रक्षायुता तन्वी मत्समेता सखीयुता । क्रीडार्थं जाह्नवीतोये नित्यमायाति याति च
; हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् यशोवत्युवाच प्रातरुत्थाय तन्वङ्गी चलिता च सखीयुता । चामरैर्वीज्यमाना सा रक्षिता बहुरक्षिभिः
सायुधैश्चातिसन्नद्धैः सहिता वरवर्णिनी । क्रीडार्थमत्र राजेन्द्र सम्प्राप्ता नलिनीं शुभाम्
अहमप्यनया सार्धं गङ्गातीरे समागता । अप्सरोभिः समेता च कमलैः क्रीडमानया
एकावली तथा चाहं जाते क्रीडापरे यदा । सहसैव तदायातो दानवो बलसंयुतः
कालकेतुरिति ख्यातो राक्षसैर्बहुभिर्युतः । परिघासिगदाचापबाणतोमरपाणिभिः