सुनसे ब्रूहि कासि त्वं कस्य पुत्री शुभानने । गन्धर्वी देवकन्याथ कथं रोदिषि सुन्दरि
कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे । पतिस्ते क्व गतः कान्ते पिता वा ब्रूहि साम्प्रतम्
किं ते दुःखमरालभ्रु कथयाद्य ममान्तिके । करोमि दुःखनाशं ते सर्वथैव कृशोदरि
न राज्ये मम तन्वङ्गि पीडां कोऽपि करोत्यलम् । न भयं चौरजं कान्ते न राक्षसभयं तथा
मयि शासति भूपाले नोत्पाता दारुणा भुवि । भयं न व्याघ्रसिंहेभ्यो न भयं कस्यचिद्भवेत्
वद वामोरु कस्मात्त्वं विलापं जाह्नवीतटे । करोषि त्राणहीनात्र किं ते दुःखं वदस्व मे
हन्म्यहं दुःखमत्युग्रं प्राणिनां पृथिवीतले । दैवं च मानुषं कान्ते व्रतमेतन्ममाद्भुतम्
विशाललोचने ब्रूहि करोमि तव चिन्तितम् । इत्युक्ते वचने राज्ञा श्रुत्वोवाच मृदुस्वना
शृणु राजेन्द्र वक्ष्यामि मम शोकस्य कारणम् । विपत्तिरहितः प्राणी कथं रुदति भूपते
प्रब्रवीमि महाबाहो यदर्थं रुदती त्वहम् । तव राज्यादन्यदेशे राजा परमधार्मिकः
रैभ्यो नाम महाराजः सन्तानरहितो भृशम् । तस्य भार्या सुविख्याता रुक्मरेखेति नामतः
सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता । अपुत्रा दुःखिता कान्तमित्युवाच पुनः पुनः
किं जीवितेन मे नाथ धिग्वृथा जीवितं मम । वन्ध्यायाः सुखहीनाया ह्यपुत्राया धरातले
इत्येवं भार्यया भूपः प्रेरितो मखमुत्तमम् । चकार ब्राह्मणांस्तज्ज्ञानाहूय विधिवत्तदा
पुत्रकामो धनं भूरि ददावथ यथोदितम् । हूयमाने घृतेऽत्यर्थं पावकादतिसुप्रभात्
आविर्बभूव चार्वङ्गी कन्यका शुभलक्षणा । बिम्बोष्ठी सुदती सुभ्रूः पूर्णचन्द्रनिभानना
कनकाभा सुकेशान्ता रक्तपाणितला मृदुः । सुरक्तनयना तन्वी रक्तपादतला भृशम्
हुताशनात्समुद्भूता होत्रा सा स्वीकृता तदा । होता प्रोवाच राजानं गृहीत्वा तां सुमध्यमाम्
राजन् पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम् । एकावलीव सम्भूता हूयमानाद्धुताशनात्
नाम्ना चैकावली लोके ख्याता पुत्री भविष्यति । सुखितो भव भूपाल पुत्र्या पुत्रसमानया
सन्तोषं कुरु राजेन्द्र दत्ता देवेन विष्णुना । होतुर्वाक्यं नृपः श्रुत्वा दृष्ट्वा तां कन्यकां शुभाम्
जग्राह परमप्रीतो होत्रा दत्तां सुसम्मताम् । गृहीत्वा नृपतिस्तां तु ददौ पत्न्यै वराननाम्
आभाष्य रुक्मरेखायै गृहाण सुभगे सुताम् । सा तां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम्
जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथासुखम् । चकार मङ्गलं कर्म जातकर्मादिकं शुभम्
पुत्रजन्मसमुत्थं यत्तत्सर्वं विधिवत्ततः । समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम्
दत्त्वा विसृज्य विप्रेन्द्रान् मुदं प्राप महीपतिः । दिने दिनेऽसितापाङ्गी पुत्रवृद्ध्या भृशं बभौ
मुदं च परमां प्राप नृपभार्या सुतान्विता । उत्सवस्तद्दिने तस्य प्रवृत्तः सुतजन्मजः
पुत्री पुत्रसमात्यर्थं बभूव वल्लभा किल । राज्ञो मन्त्रिसुता चाहं सुबुद्धे मन्मथाकृते
यशोवती च मे नाम समानं वय आवयोः । वयस्याहं कृता राज्ञा क्रीडनाय तया सह
सदा सहचरी जाता प्रेमयुक्ता दिवानिशम् । एकावली गन्धवन्ति यत्र पद्मानि पश्यति