लोलाक्षि दत्तः कमलासमुत्थो जनार्दनांशोऽयमहीनसत्त्वः । सा तं गृहीत्वा मुदमाप राज्ञी राजा चकारोत्सवमद्भुतं च
ददौ च दानं किल याचकेभ्यो गीतानि वाद्यानि बहूनि नेदुः । कृत्वोत्सवं भूपतिरात्मजस्य नामैकवीरेति चकार विश्रुतम्
सुखं च सम्प्राप्य मुदान्वितोऽसौ ननन्द देवाधिपतुल्यवीर्यः । पुत्रं हरे रूपगुणानुरूपं सम्प्राप्य वंशस्य ऋणाच्च मुक्तः
इति सकलसुराणामीश्वरेणार्पितं तं सकलगुणगणाढ्यं पुत्रमासाद्य राजा । विविधसुखविनोदैर्भार्यया सेव्यमानो व्यहरत निजगेहे शक्रतुल्यप्रतापः
राजपुत्र्याः एकावल्याः वर्णनम् व्यास उवाच जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा । दिने दिने जगामाशु वृद्धिं बालः सुलालितः
नृपः संसारजं प्राप्य सुखं पुत्रसभुद्भवम् । ऋणत्रयविमोक्षं च मेने तेन महात्मना
षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि । तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम्
चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः । गोभिश्च विविधैर्दानैर्याचकानितरानपि
वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै । कारयित्वा धनुर्वेदमध्यापयत पार्थिवः
अधीतवेदं पुत्रं तं राजधर्मविशारदम् । दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः
पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः । कारयामास सम्भारानभिषेकार्थमादरात्
द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् । अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह
जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः । स्वयं चकार विथिवदभिषेकं शुभे दिने
धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः । जगाम वनमेवाशु स्वर्गकामः स भूपतिः
एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ । भार्यया सह भूपालः प्रविवेश वनं वशी
मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् । नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम्
एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया । मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा
इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः । चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम्
कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः । राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम्
एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् । बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः
एकस्मिन् दिवसे राजा मन्त्रिपुत्रैः समन्वितः । जगाम जाह्नवीतीरे हयारूढः प्रतापवान्
सम्पश्यन् पादपान् रम्यान् कोकिलालापसंयुतान् । पुष्पितान् फलसंयुक्तान् षट्पदालिविराजितान्
मुनीनामाश्रमान्दिव्यान् वेदध्वनिनिनादितान् । होमधूमावृताकाशान् मृगशावसमावृतान्
केदाराञ्छालिसम्पक्वान् गोपिकाभिः सुरक्षितान् । प्रफुल्लपङ्कजारामान्निकुञ्जांश्च मनोरमान्
प्रेक्षमाणः प्रियालांस्तु चम्पकान् पनसद्रुमान् । बकुलांस्तिलकान्नीपान्मन्दारांश्च प्रफुल्लितान्
शालांस्तालांस्तमालांश्च जम्बूचूतकदम्बकान् । स गच्छञ्जाह्नवीतोये प्रफुल्लं शतपत्रकम्
पङ्कजं चातिगन्धाढ्यमपश्यदवनीपतिः । दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम्
कनकाभां सुकेशीं च कम्बुग्रीवां कृशोदरीम् । बिम्बोष्ठी सुन्दरीं किञ्चित्समुद्यत्सुपयोधराम्
सुनासां चारुसर्वाङ्गीमपश्यत् कन्यकां नृपः । रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम्
साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव । संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम्