मुखं समीक्ष्यातिमनोहरं त- मुवाच नेत्राम्बुनिरुद्धकण्ठः । दत्तोऽसि देवेन जनार्दनेन मात्रा हि पुत्रावमदुःखभीतेः
तप्तं मया पुत्र तपस्तवार्थे सुदुष्करं वर्षशतं च पूर्णम् । तेनैव तुष्टेन रमाप्रियेण दत्तोऽसि संसारसुखोदयाय
माता रमा त्वां तनुजं मदर्थे त्यक्त्वा गता सा हरिणा समेता । धन्या तु सा या प्रहसन्तमङ्के कृत्वा सुतं त्वां मुदितानना स्यात्
त्वमेव संसारसमुद्रनौका- रूपः कृतः पुत्र लक्ष्मीधरेण । इत्येवमुक्त्वा नृपतिः सुतं तं मुदा समादाय ययौ गृहाय
पुरीसमीपे नृपमागतं त- माकर्ण्य सर्वे सचिवास्तु राज्ञः । ययुः समीपं नृपतेश्च लोकाः सोपायनास्ते सपुरोहिताश्च
बन्दीजना गायनकाश्च सूताः समाययुः सम्मुखमाशु राज्ञः । नृपः पुरं प्राप्य पुरः समागतं जनं समाश्वास्य वाक्यैश्च दृष्ट्या
सम्पूजितः पौरजनेन राजा विवेश पुत्रेण युतो नगर्याम् । मार्गेषु लाजैः कुसुमैः समन्ता- द्विकीर्यमाणो नृपतिर्जगाम
गृहं समृद्धं सचिवैः समेतः सुतं समादाय मुदा कराभ्याम् । राज्ये ददौ चाथ सुतं मनोज्ञं सद्यःप्रसूतं च मनोभवाभम्
राज्ञी गृहीत्वाभिनवं तनूजं पप्रच्छ राजानमनिन्दिता सा । राजन् कुतश्चैव सुतः सुजन्मा प्राप्तस्त्वया मन्मथतुल्यरूपः
केनैष दत्तः कथयाशु कान्त चेतो मदीयं प्रहृतं सुतेन । नृपस्तदोवाच मुदान्वितोऽसौ प्रिये रमेशेन सुतो हि मह्यम्
लोलाक्षि दत्तः कमलासमुत्थो जनार्दनांशोऽयमहीनसत्त्वः । सा तं गृहीत्वा मुदमाप राज्ञी राजा चकारोत्सवमद्भुतं च
ददौ च दानं किल याचकेभ्यो गीतानि वाद्यानि बहूनि नेदुः । कृत्वोत्सवं भूपतिरात्मजस्य नामैकवीरेति चकार विश्रुतम्
सुखं च सम्प्राप्य मुदान्वितोऽसौ ननन्द देवाधिपतुल्यवीर्यः । पुत्रं हरे रूपगुणानुरूपं सम्प्राप्य वंशस्य ऋणाच्च मुक्तः
इति सकलसुराणामीश्वरेणार्पितं तं सकलगुणगणाढ्यं पुत्रमासाद्य राजा । विविधसुखविनोदैर्भार्यया सेव्यमानो व्यहरत निजगेहे शक्रतुल्यप्रतापः
राजपुत्र्याः एकावल्याः वर्णनम् व्यास उवाच जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा । दिने दिने जगामाशु वृद्धिं बालः सुलालितः
नृपः संसारजं प्राप्य सुखं पुत्रसभुद्भवम् । ऋणत्रयविमोक्षं च मेने तेन महात्मना
षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि । तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम्
चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः । गोभिश्च विविधैर्दानैर्याचकानितरानपि
वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै । कारयित्वा धनुर्वेदमध्यापयत पार्थिवः
अधीतवेदं पुत्रं तं राजधर्मविशारदम् । दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः
पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः । कारयामास सम्भारानभिषेकार्थमादरात्
द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् । अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह
जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः । स्वयं चकार विथिवदभिषेकं शुभे दिने
धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः । जगाम वनमेवाशु स्वर्गकामः स भूपतिः
एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ । भार्यया सह भूपालः प्रविवेश वनं वशी
मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् । नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम्
एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया । मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा
इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः । चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम्
कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः । राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम्
एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् । बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः