कस्यायं बालकः कान्त त्यक्तः केन च कानने । पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना
चम्पक उवाच प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै । देवो वा दानवो वापि गन्धर्वो वा शिशुः किल
तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् । अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम्
इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः । ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः
प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् । निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः
देवदेव मया लब्धस्तीर्थे परमपावने । कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः
कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते । आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम्
अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः । कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा
इन्द्र उवाच पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह । हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः
उत्पादितो भगवता कार्यार्थं किल बालकः । दातुं नृपतये नूनं ययातितनयाय च
हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः । आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे
तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् । यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः
गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर । अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति
तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् । एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले
व्यास उवाच इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः । जगाम पुत्रमादाय स्थले तस्मिन्महीपते
मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् । आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम्
तदैव कमलाकान्तो लक्ष्म्या सह जगद्गुरुः । विमानवरमारूढो जगाम नृपतिं प्रति
दृष्टस्तदा तेन नृपेण विष्णुः समुत्तरंस्तत्र विमानमुख्यात् । जहर्ष राजा हरिदर्शनेन पपात भूमौ खलु दण्डवच्च
उत्तिष्ठ वत्सेति हरिः पतन्त- माश्वासयद्भूमिगतं स्वभक्तम् । सोऽप्युत्सुको वासुदेवं पुरःस्थं तुष्टाव भक्त्या मुखरीकृतोऽथ
देवाधिदेवाखिललोकनाथ कृपानिधे लोकगुरो रमेश । मन्दस्य मे ते किल दर्शनं य- त्सुदुर्लभं योगिजनैरलभ्यम्
ये निःस्पृहास्ते विषयैरपेता- स्तेषां त्वदीयं खलु दर्शनं स्यात् । आशापरोऽहं भगवन्ननन्त योग्यो न ते दर्शने देवदेव
इति स्तुतस्तेन नृपेण विष्णु- स्तमाह वाक्येन सुधामयेन । वृणीष्व राजन् मनसेप्सितं ते ददामि तुष्टस्तपसा तवेति
ततो नृपस्तं प्रणिपत्य पादयोः प्रोवाच विष्णुं पुरतः स्थितं च । तपस्तु तप्तं हि मया सुतार्थे पुत्रं ददस्वात्मसमं मुरारे
श्रुत्वा नृपप्रार्थितमादिदेव- स्तमाह राजानममोघवाक्यम् । ययातिसूनो व्रज तत्र तीर्थे कलिन्दकन्यातमसाप्रसङ्गे
मयाद्य पुत्रस्तु यथेप्सितस्ते तत्रैव मुक्तोऽस्त्यमितप्रभावः । लक्ष्म्याः प्रसूतो मम वीर्यजश्च कृतस्तवार्थेऽथ गृहाण राजन्
श्रुत्वा हरेर्वाक्यमतीव मृष्टं सन्तुष्टचित्तः प्रबभूव राजा । हरिस्तु दत्त्वेति वरं जगाम वैकुण्ठलोकं रमया युतश्च
गते हरौ सोऽथ ययातिसूनु- र्ययावनुद्धातरथेन राजा । प्रेमान्वितस्तत्र सुतोऽस्ति यत्र वचो निशम्येति जनार्दनस्य
स तत्र गत्वातिमनोहरं तं ददर्श बालं भुवि खेलमानम् । मुखे निवेश्यैककरेण कृत्वा श्लक्ष्णं पदाङ्गुष्ठमनन्यसत्त्वः
तं वीक्ष्य पुत्रं मदनस्वरूपं नारायणांशं कमलाप्रसूतम् । हरिप्रभावं हरिवर्मनामा हर्षप्रफुल्लाननपङ्कजोऽभूत्
गृह्णन् सुवेगात् करपङ्कजाभ्यां बभूव प्रेमार्णवमग्नदेहः । मूर्धन्युपाघ्राय मुदान्वितोऽसौ ननन्द राजा सुतमालिलिङ्ग