एकवीराख्यानवर्णनम् जनमेजय उवाच संशयोऽयं महानत्र जातमात्रः शिशुस्तथा । मुक्तः केन गृहीतोऽसावेकाकी विजने वने
का गतिस्तस्य बालस्य जाता सत्यवतीसुत । व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः
व्यास उवाच लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा । तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल
विमानवरमारूढः कामिन्या सहितो नृप । मदनालसया कामं क्रीडमानो यदृच्छया
विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् । देवपुत्रप्रतीकाशं रममाणं यथासुखम्
विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् । जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः
गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् । मदनालसायै तं बालं जातमात्रं मनोहरम्
सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया । मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम्
आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् । उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत
कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा । पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा
कस्यायं बालकः कान्त त्यक्तः केन च कानने । पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना
चम्पक उवाच प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै । देवो वा दानवो वापि गन्धर्वो वा शिशुः किल
तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् । अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम्
इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः । ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः
प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् । निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः
देवदेव मया लब्धस्तीर्थे परमपावने । कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः
कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते । आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम्
अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः । कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा
इन्द्र उवाच पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह । हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः
उत्पादितो भगवता कार्यार्थं किल बालकः । दातुं नृपतये नूनं ययातितनयाय च
हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः । आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे
तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् । यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः
गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर । अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति
तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् । एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले
व्यास उवाच इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः । जगाम पुत्रमादाय स्थले तस्मिन्महीपते
मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् । आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम्
तदैव कमलाकान्तो लक्ष्म्या सह जगद्गुरुः । विमानवरमारूढो जगाम नृपतिं प्रति
दृष्टस्तदा तेन नृपेण विष्णुः समुत्तरंस्तत्र विमानमुख्यात् । जहर्ष राजा हरिदर्शनेन पपात भूमौ खलु दण्डवच्च
उत्तिष्ठ वत्सेति हरिः पतन्त- माश्वासयद्भूमिगतं स्वभक्तम् । सोऽप्युत्सुको वासुदेवं पुरःस्थं तुष्टाव भक्त्या मुखरीकृतोऽथ
देवाधिदेवाखिललोकनाथ कृपानिधे लोकगुरो रमेश । मन्दस्य मे ते किल दर्शनं य- त्सुदुर्लभं योगिजनैरलभ्यम्