दिव्यदेहौ ततो जातौ लक्ष्मीनारायणावुभौ । विमानवरसंविष्टौ स्तूयमानौ सुरैर्दिवि
गन्तुकामं पतिं प्राह कमला कमलापतिम् । गृहाणेमं सुतं नाथ नाहं शक्तास्मि हापितुम्
प्राणप्रियोऽस्ति मे पुत्रः कान्त्या त्वत्सदृशः प्रभो । गृहीत्वैनं गमिष्यावो वैकुण्ठं मधुसूदन
हरिरुवाच मा विषादं प्रिये कर्तुं त्वमर्हसि वरानने । तिष्ठत्वयं सुखेनात्र रक्षा मे विहिता त्विह
कार्यं किमपि वामोरु वर्तते महदद्भुतम् । निबोध कथयाम्यद्य सुतस्यात्र विमोचने
तुर्वसुर्नाम विख्यातो ययातितनुजो भुवि । हरिवर्मेति पित्रास्य कृतं नाम सुविश्रुतम्
स राजा पुत्रकामोऽद्य तपस्तपति पावने । तीर्थे वर्षशतं जातं तस्य वै कुर्वतस्तपः
तस्यार्थे निर्मितः पुत्रो मयायं कमलालये । तत्र गत्वा नृपं सुभ्रु प्रेरयिष्यामि साम्प्रतम्
तस्मै दास्याम्यहं पुत्रं पुत्रकामाय कामिनि । गृहीत्वा स्वगृहं राजा प्रापयिष्यति बालकम्
व्यास उवाच इत्याश्वास्य प्रियां पद्मां कृत्वा रक्षां च बालके । विमानवरमारुह्य प्रययौ प्रियया सह
एकवीराख्यानवर्णनम् जनमेजय उवाच संशयोऽयं महानत्र जातमात्रः शिशुस्तथा । मुक्तः केन गृहीतोऽसावेकाकी विजने वने
का गतिस्तस्य बालस्य जाता सत्यवतीसुत । व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः
व्यास उवाच लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा । तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल
विमानवरमारूढः कामिन्या सहितो नृप । मदनालसया कामं क्रीडमानो यदृच्छया
विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् । देवपुत्रप्रतीकाशं रममाणं यथासुखम्
विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् । जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः
गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् । मदनालसायै तं बालं जातमात्रं मनोहरम्
सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया । मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम्
आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् । उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत
कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा । पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा
कस्यायं बालकः कान्त त्यक्तः केन च कानने । पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना
चम्पक उवाच प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै । देवो वा दानवो वापि गन्धर्वो वा शिशुः किल
तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् । अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम्
इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः । ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः
प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् । निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः
देवदेव मया लब्धस्तीर्थे परमपावने । कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः
कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते । आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम्
अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः । कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा
इन्द्र उवाच पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह । हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः
उत्पादितो भगवता कार्यार्थं किल बालकः । दातुं नृपतये नूनं ययातितनयाय च