गते दूतेऽथ भगवान्वैकुण्ठात्कामसंयुतः । जगाम धृत्वा तत्राशु वाजिरूपं मनोहरम्
यत्र सा वडवारूपं कृत्वा तपति सिन्धुजा । विष्णुस्तं देशमासाद्य तामपश्यद्धयीं स्थिताम्
सापि तं वीक्ष्य गोविन्दं हयरूपधरं पतिम् । ज्ञात्वा वीक्ष्य स्थिता साध्वी विस्मिता साश्रुलोचना
तयोस्तु सङ्गमस्तत्र प्रवृत्तो मन्मथार्तयोः । कालिन्दीतमसासङ्गे पावने लोकविश्रुते
सगर्भा सा तदा जाता वडवा हरिवल्लभा । सुषुवे सुन्दरं बालं तत्रैव सुगुणोत्तरम्
तामाह भगवान्वाक्यं प्रहस्य समयाश्रितम् । त्यजाद्य वाडवं देहं पूर्वदेहा भवाधुना
गमिष्यावः स्ववैकुण्ठमावां कृत्वा निजं वपुः । तिष्ठत्वत्र कुमारोऽयं त्वया जातः सुलोचने
लक्ष्मीरुवाच स्वदेहसम्भवं पुत्रं कथं हित्वा व्रजाम्यहम् । स्नेहः सुदुस्त्यजः कामं स्वात्मजस्य सुरर्षभ
का गतिः स्यादमेयात्मन् बालस्यास्य नदीतटे । अनाथस्यासमर्थस्य विजनेऽल्पतनोरिह
अनाश्रयं सुतं त्यक्त्वा कथं गन्तुं मनो मम । समर्थं सदयं स्वामिन् भवेदम्बुजलोचन
दिव्यदेहौ ततो जातौ लक्ष्मीनारायणावुभौ । विमानवरसंविष्टौ स्तूयमानौ सुरैर्दिवि
गन्तुकामं पतिं प्राह कमला कमलापतिम् । गृहाणेमं सुतं नाथ नाहं शक्तास्मि हापितुम्
प्राणप्रियोऽस्ति मे पुत्रः कान्त्या त्वत्सदृशः प्रभो । गृहीत्वैनं गमिष्यावो वैकुण्ठं मधुसूदन
हरिरुवाच मा विषादं प्रिये कर्तुं त्वमर्हसि वरानने । तिष्ठत्वयं सुखेनात्र रक्षा मे विहिता त्विह
कार्यं किमपि वामोरु वर्तते महदद्भुतम् । निबोध कथयाम्यद्य सुतस्यात्र विमोचने
तुर्वसुर्नाम विख्यातो ययातितनुजो भुवि । हरिवर्मेति पित्रास्य कृतं नाम सुविश्रुतम्
स राजा पुत्रकामोऽद्य तपस्तपति पावने । तीर्थे वर्षशतं जातं तस्य वै कुर्वतस्तपः
तस्यार्थे निर्मितः पुत्रो मयायं कमलालये । तत्र गत्वा नृपं सुभ्रु प्रेरयिष्यामि साम्प्रतम्
तस्मै दास्याम्यहं पुत्रं पुत्रकामाय कामिनि । गृहीत्वा स्वगृहं राजा प्रापयिष्यति बालकम्
व्यास उवाच इत्याश्वास्य प्रियां पद्मां कृत्वा रक्षां च बालके । विमानवरमारुह्य प्रययौ प्रियया सह
एकवीराख्यानवर्णनम् जनमेजय उवाच संशयोऽयं महानत्र जातमात्रः शिशुस्तथा । मुक्तः केन गृहीतोऽसावेकाकी विजने वने
का गतिस्तस्य बालस्य जाता सत्यवतीसुत । व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः
व्यास उवाच लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा । तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल
विमानवरमारूढः कामिन्या सहितो नृप । मदनालसया कामं क्रीडमानो यदृच्छया
विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् । देवपुत्रप्रतीकाशं रममाणं यथासुखम्
विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् । जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः
गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् । मदनालसायै तं बालं जातमात्रं मनोहरम्
सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया । मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम्
आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् । उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत
कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा । पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा