उच्चप्रासादसंयुक्तं पताकाभिरलंकृतम् । नृत्यगीतकलापूर्णं मन्दारद्रुमसंयुतम्
बकुलाशोकतिलकचम्पकालिविमण्डितम् । कूजितैर्विहगानां तु कर्णाह्लादकरैर्युतम्
संवीक्ष्य भवनं विष्णोर्द्वास्थौ प्राह प्रणम्य च । जयविजयनामानौ वेत्रपाणी स्थितावुभौ
चित्ररूप उवाच भो निवेदयत शीघ्रं हरये परमात्मने । दूतं प्राप्यं हरस्यात्र प्रेरितं शूलपाणिना
तच्छ्रुत्वा वचनं तस्य जयः परमबुद्धिमान् । गत्वा हरिं प्रणम्याह कृताञ्जलिपुटः पुरः
देवदेव रमाकान्त करुणाकर केशव । द्वारि तिष्ठति दूतोऽत्र शङ्करस्य समागतः
आज्ञापय प्रवेष्टव्यो न वेति गरुडध्वज । चित्ररूपधरोऽप्यस्ति न जाने कार्यगौरवम्
इत्याकर्ण्य हरिः प्राह जयं प्रज्ञातकारणः । प्रवेशयात्र रुद्रस्य भृत्यं समयसंस्थितम्
इत्याकर्ण्य जयस्तूर्णं गत्वा तं परमाद्भुतम् । एहीत्याकारयामास जयः शङ्करसेवकम्
प्रवेशितो जयेनाथ चित्ररूपस्तथाकृतिः । प्रणम्य दण्डवद्विष्णुं कृताञ्जलिपुटः स्थितः
दृष्ट्वा तं विस्मयं प्राप भगवान् गरुडध्वजः । चित्ररूपधरं शम्भोः सेवकं विनयान्वितम्
पप्रच्छ तं स्मितं कृत्वा चित्ररूपं रमापतिः । कुशलं देवदेवस्य सकुटुम्बस्य चानघ
कस्मात्त्वं प्रेषितोऽस्यत्र ब्रूहिकार्यं हरस्य किम् । अथवा देवतानां च किञ्चित्कार्यं समुत्थितम्
दूत उवाच किमज्ञातं तवास्तीह संसारे गरुडध्वज । वर्तमानं त्रिकालज्ञ यदहं प्रब्रवीमि वै
प्रेषितोऽस्मि भवेनात्र विज्ञस्तु त्वां जनार्दन । हरस्य वचनाद्वाक्यं प्रब्रवीमि त्वयि प्रभो
तेनोक्तमेतद्देवेश भार्या ते कमलालया । तपस्तपति कालिन्दीतमसासङ्गमे विभो
हयीरूपधरा देवी सर्वार्थसिद्धिदायिनी । ध्यातुं योग्यामरगणैर्मानवैर्यक्षकिन्नरैः
विना तया नरः कोऽपिसुखभागी भवेन्न हि । तां त्यक्त्वा पुण्डरीकाक्ष प्राप्नोषि किं सुखं हरे
दुर्बलोऽपि स्त्रियं पाति निर्धनोऽपि जगत्पते । विनापराधं च विभो किं त्यक्ता जगदीश्वरी
दुःखं प्राप्नोति संसारे यस्य भार्या जगद्गुरो । धिक्तस्य जीवितं लोके निन्दितं त्वरिमण्डले
सकामा रिपवस्तेऽद्य दृष्ट्वा तां दुःखिता भृशम् । त्वां वियुक्तं च रमया हसिष्यन्ति दिवानिशम्
रमां रमय देवेश त्वदुत्सङ्गगतां कुरु । सर्वलक्षणसम्पन्नां सुशीलां च सुरूपिणीम्
सुखितो भव तां प्राप्य वल्लभां चारुहासिनीम् । कान्ताविरहजं दुःखं स्मराम्यहमनातुरः
मम भार्या मृता विष्णो दक्षयज्ञे सती यदा । तदाहं दुःसहं दुःखं भुक्तवानम्बुजेक्षण
संसारेऽस्मिन्नरः कोऽपि माभून्मत्सदृशोऽपरः । मनसाकरवं शोकं तस्या विरहपीडितः
कालेन महता प्राप्ता मया गिरिसुता पुनः । तपस्तप्त्वातिदुःसाध्यं या दग्धा तु रुषाध्वरे
हरे किं सुखमापन्नं त्वया सन्त्यज्य कामिनीम् । एकाकी तिष्ठता कालं सहस्रवत्सरात्मकम्
गत्वाश्वास्य महाभागां समानय निजालयम् । माभूत्कोऽपीह संसारे विमुक्तो रमया तया
कृत्वा तुरगरूपं त्वं भज तां कमलालयाम् । उत्पाद्य पुत्रमायुष्मंस्तामानय शुचिस्मिताम्
व्यास उवाच हरिराकर्ण्य तद्वाक्यं चित्ररूपस्य भारत । तथेत्युक्त्वा तु तं दूतं प्रेषयामास शङ्करम्