वृत्तान्तं तस्य विज्ञातं प्रवक्तुमुपचक्रमे । शिवं प्रति रमा तत्र प्रसन्नवदना भृशम्
लक्ष्मीरुवाच एकदा देवदेवेश विष्णुर्ध्यानपरो रहः । दृष्टो मया तपः कुर्वन्पद्मासनगतो यदा
तदाहं विस्मिता देवं तमपृच्छं पतिं किल । प्रबुद्धं सुप्रसन्नं च ज्ञात्वा विनयपूर्वकम्
देवदेव जगन्नाथ यदाहं निर्गतार्णवात् । मथ्यमानात्सुरैर्दैत्यैः सर्वैर्ब्रह्मादिभिः प्रभो
वीक्षिताश्च मया सर्वे पतिकामनया तदा । वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्चयात्
त्वं कं ध्यायसि सर्वेश संशयोऽयं महान्मम । प्रियोऽसि कैटभारे मे कथयस्व मनोगतम्
विष्णुरुवाच शृणु कान्ते प्रवक्ष्यामि यं ध्यायामि सुरोत्तमम् । आशुतोषं महेशानं गिरिजावल्लभं हृदि
कदाचिद्देवदेवो मां ध्यायत्यमितविक्रमः । ध्यायाम्यहं च देवेशं शङ्करं त्रिपुरान्तकम्
शिवस्याहं प्रियः प्राणः शङ्करस्तु तथा मम । उभयोरन्तरं नास्ति मिथः संसक्तचेतसोः
नरकं यान्ति ते नूनं ये द्विषन्ति महेश्वरम् । भक्ता मम विशालाक्षि सत्यमेतद्ब्रवीम्यहम्
इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना । एकान्ते किल पृष्टेन मया शैलसुताप्रिय
तस्मात्त्वां वल्लभं विष्णोर्ज्ञात्वा ध्यातवती ह्यहम् । तथा कुरु महेशान यथा मे प्रियसङ्गमः
व्यास उवाच इति श्रियो वचः श्रुत्वा प्रत्युवाच महेश्वरः । तामाश्वास्य प्रियैर्वाक्यैर्यथार्थं वाक्यकोविदः
स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तव । समागमस्ते पतिना भविष्यति न संशयः
अत्रैव हयरूपेण भगवाञ्जगदीश्वरः । आगमिष्यति ते कामं पूर्णं कर्तुं मयेरितः
तथाहं प्रेरयिष्यामि तं देवं मधुसूदनम् । यथासौ हयरूपेण त्वामेष्यति मदातुरः
पुत्रस्ते भविता सुभ्रु नारायणसमः क्षितौ । भविष्यति स भूपालः सर्वलोकनमस्कृतः
सुतं प्राप्य महाभागे त्वं तेन पतिना सह । गन्तासि देवि वैकुण्ठं प्रिया तस्य भविष्यसि
एकवीरेति नाम्नासौ ख्यातिं यास्यति ते सुतः । तस्मात्तु हैहयो वंशो भुवि विस्तारमेष्यति
परं तु विस्मृतासि त्वं हृदिस्थां परमेश्वरीम् । मदान्धा मत्तचित्ता च तेन ते फलमीदृशम्
अतस्तद्दोषशान्त्यर्थं हृदिस्थां परदेवताम् । शरणं याहि सर्वात्मभावेन जलधेः सुते
अन्यथा तव चित्तं तु कथं गच्छेद्धयोत्तमे । व्यास उवाच इति दत्त्वा वरं देव्यै भगवाञ्छैलजापतिः
अन्तर्धानं गतः साक्षादुमया सहितः शिवः । सापि तत्रैव चार्वङ्गी संस्थिता कमलासना
ध्यायन्ती चरणाम्भोजं देव्याः परमशोभनम् । देवासुरशिरोरत्ननिघृष्टनखमण्डलम्
प्रेमगद्गदया वाचा तुष्टाव च मुहुर्मुहुः । प्रतीक्षमाणा भर्तारं हयरूपधरं हरिम्
पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् व्यास उवाच तस्यै दत्त्वा वरं शम्भुः कैलासं त्वरितो ययौ । रम्यं देवगणैर्जुष्टमप्सरोभिश्च मण्डितम्
तत्र गत्वा चित्ररूपं गणं कार्यविशारदम् । प्रेषयामास वैकुण्ठे लक्ष्मीकार्यार्थसिद्धये
शिव उवाच चित्ररूप हरिं गत्वा ब्रूहि त्वं वचनान्मम । यथासौ दुःखितां पत्नीं विशोकां च करिष्यति
इत्युक्तश्चित्ररूपोऽथ निर्जगाम त्वरान्वितः । वैकुण्ठं परमं स्थानं वैष्णवैश्च गणैर्वृतम्
नानाद्रुमगणाकीर्णं वापीशतविराजितम् । संजुष्टं हंसकारण्डमयूरशुककोकिलैः