रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् । भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम्
पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः । निवेदयामास कथां भास्कराय स शापजाम्
दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् । आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना
सूर्यपत्न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् । तत्रैव सा ययावाशु वडवारूपधारिणी
कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे । सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते
तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् । दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम्
पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् । कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम्
व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् । कपालमालाकलितं नागयज्ञोपवीतिनम्
सागरस्य सुता कृत्वा हयीरूपं मनोहरम् । तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः
ध्यायमाना परं देवं वैराग्यं समुपाश्रिता । दिव्यं वर्षसहस्रं तु गतं तत्र महीपते
ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः । प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः
तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् । तपस्यन्तीं महाभागामश्विनीरूपधारिणीम्
किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे । सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः
हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् । वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम्
वेदोक्तं वचनं कार्यं नारीणां देवता पतिः । नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्क्वचित्
पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः । यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया
नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि । तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे
लक्ष्मीरुवाच आशुतोष महेशान शप्ताहं पतिना शिव । मां समुद्धर देवेश शापादस्माद्दयानिधे
तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् । विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना
यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् । भविष्यति च वैकुण्ठवासस्ते कमलालये
इत्युक्ताहं तपस्तप्तुमागतास्मि तपोवने । आराधितो मया देव त्वं सर्वार्थप्रदायकः
पतिसङ्गं विना पुत्रं देवदेव लभे कथम् । स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम्
वरं मे देहि देवेश यदि तुष्टोऽसि शङ्कर । तव तस्य द्विधा भावो नास्ति नूनं कदाचन
मयैतद्गिरिजाकान्त ज्ञातं पत्युः पुरो हर । यस्त्वं योऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः
एकत्वं च मया ज्ञात्वा मया ते स्मरणं कृतम् । अन्यथा मम दोषस्त्वामाश्रयन्त्या भवेच्छिव
शिव उवाच कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि । ऐक्यभावो हरेर्नूनं सत्यं मे वद सिन्धुजे
एकत्वं च न जानन्ति देवाश्च मुनयस्तथा । ज्ञानिनो वेदतत्त्वज्ञाः कुतर्कोपहताः किल
मद्भक्ता वासुदेवस्य निन्दका बहवस्तथा । विष्णभक्तास्तु बहवो मम निन्दापरायणाः
भवन्ति कालभेदेन कलौ देवि विशेषतः । कथं ज्ञातस्त्वया भद्रे दुर्ज्ञेयो ह्यकृतात्मभिः
सर्वथा त्वैक्यभावस्तु हरेर्मम च दुर्लभः । व्यास उवाच इति सा शम्भुना पुष्टा तुष्टेन हरिवल्लभा