गत्वा ऋषिसमीपं तु तमुवाच जगद्गुरुः । उत्तिष्ठ वासवीपुत्र पुत्रस्ते भविता शुभः
सर्वतेजोमयो ज्ञानी कीर्तिकर्ता तवानघ । अखिलस्य जनस्यात्र वल्लभस्ते सुतः सदा
भविष्यति गुणैः पूर्णः सात्त्विकैः सत्यविक्रमः । सूत उवाच तदाकर्ण्य वचः श्लक्ष्णं कृष्णद्वैपायनस्तदा
शूलपाणिं नमस्कृत्य जगामाश्रममात्मनः । स गत्वाश्रममेवाशु बहुवर्षश्रमातुरः
अरणीसहितं गुह्यं ममन्थाग्निं चिकीर्षया । मन्थनं कुर्वतस्तस्य चित्ते चिन्ताभरस्तदा
प्रादुर्बभूव सहसा सुतोत्पत्तौ महात्मनः । मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः
पावकस्य यथा तद्वत्कथं मे स्यात्सुतोद्भवः । पुत्रारणिस्तु या ख्याता सा ममाद्य न विद्यते
तरुणी रूपसम्पन्ना कुलोत्पन्ता पतिव्रता । कथं करोमि कान्तां च पादयोः शृङ्खलासमाम्
पुत्रोत्पादनदक्षां च पातिव्रत्ये सदा स्थिताम् । पतिव्रतापि दक्षापि रूपवत्यपि कामिनी
सदा बन्धनरूपा च स्वेच्छासुखविधायिनी । शिवोऽपि वर्तते नित्यं कामिनीपाशसंयुतः
कथं करोम्यहं चात्र दुर्घटं च गृहाश्रमम् । एवं चिन्तयतस्तस्य घृताची दिव्यरूपिणी
प्राप्ता दृष्टिपथं तत्र समीपे गगने स्थिता । तां दृष्ट्वा चञ्चलापाङ्गीं समीपस्थां वराप्सराम्
पञ्चबाणपरीताङ्गस्तूर्णमासीद्धृतव्रतः । चिन्तयामास च तदा किं करोम्यद्य संकटे
धर्मस्य पुरतः प्राप्ते कामभावे दुरासदे । अङ्गीकरोमि यद्येनां वञ्चनार्थमिहागताम्
हसिष्यन्ति महात्मानस्तापसा मां तु विह्वलम् । तपस्तप्त्वा महाघोरं पूर्णवर्षशतं त्विह
दृष्ट्वाप्सरां च विवशः कथं जातो महातपाः । कामं निन्दापि भवतु यदि स्यादतुलं सुखम्
गृहस्थाश्रमसम्भूतं सुखदं पुत्रकामदम् । स्वर्गदं च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा
न भविष्यति तन्नूमनया देवकन्यया । नारदाच्च मया पूर्वं श्रुतमस्ति कथानकम् । यथोर्वशीवशो राजा पराभूतः पुरूरवाः
बुधोत्पत्तिः ऋषय ऊचुः कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका । कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना
सर्वं कथानकं ब्रूहि लोमहर्षणजाधुना । श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम्
अमृतादपि मिष्टा ते वाणी सूत रसात्मिका । न तृप्यामो वयं सर्वे सुधया च यथामराः
सूत उवाच शृणुध्वं मुनयः सर्वे कथां दिव्यां मनोरमाम् । वक्ष्याम्यहं यथाबुद्ध्या श्रुतां व्यासवरोत्तमात्
गुरोस्तु दयिता भार्या तारा नामेति विश्रुता । रूपयौवनयुक्ता सा चार्वङ्गी मदविह्वला
गतैकदा विधोर्धाम यजमानस्य भामिनी । दृष्टा च शशिनात्यर्थं रूपयौवनशालिनी
कामातुरस्तदा जातः शशी शशिमुखीं प्रति । सापि वीक्ष्य विधुं कामं जाता मदनपीडिता
तावन्योन्यं प्रेमयुक्तौ स्मरार्तौ च बभूवतुः । तारा शशी मदोन्मत्तौ कामबाणप्रपीडितौ
रेमाते मदमत्तौ तौ परस्परस्पृहान्वितौ । दिनानि कतिचित्तत्र जातानि रममाणयोः
बृहस्पतिस्तु दुःखार्तस्तारामानयितुं गृहम् । प्रेषयामास शिष्यं तु नायाता सा वशीकृता
पुनः पुनर्यदा शिष्यं परावर्तत चन्द्रमाः । बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि
गत्वा सोमगृहं तत्र वाचस्पतिरुदारधीः । उवाच शशिनं क्रुद्धः स्मयमानं मदान्वितम्