प्राणांस्त्यक्ष्यामि गोविन्द पश्यतोऽद्य तवाग्रतः । कथं जीवे त्वया हीना विरहानलतापिता
प्रसादं कुरु देवेश शापादस्मात्सुदारुणात् । कदा मुक्ता समीपं ते प्राप्नोमि सुखदं विभौ
हरिरुवाच यदा ते भविता पुत्रः पृथिव्यां मत्समः प्रिये । तदा मां प्राप्य तन्वङ्गि सुखिता त्वं भविष्यसि
शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् जनमेजय उवाच इति शप्ता भगवता सिन्धुजा कोपयोगतः । कथं सा वडवा जाता रेवन्तेन च किं कृतम्
कस्मिन्देशेऽब्धिजा देवी वडवारूपधारिणी । संस्थितैकाकिनी बाला परोषित्पतिका यथा
कालं कियन्तमायुष्मन् वियुक्ता पतिना रमा । संस्थिता विजनेऽरण्ये किं कृतं च तया पुनः
समागमं कदा प्राप्ता वासुदेवस्य सिन्धुजा । पुत्रः कथं तया प्राप्तो नारायणवियुक्तया
एतद्वृत्तान्तमार्येश कथयस्व सविस्तरम् । श्रोतुकामोऽस्मि विप्रेन्द्र कथाख्यानमनुत्तमम्
सूत उवाच इति पृष्टस्तदा व्यासः परीक्षित्तनयेन वै । कथयामास भो विप्राः कथामेतां सुविस्तराम्
व्यास उवाच शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । पावनीं सुखदां कर्णे विशदाक्षरसंयुताम्
रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् । भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम्
पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः । निवेदयामास कथां भास्कराय स शापजाम्
दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् । आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना
सूर्यपत्न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् । तत्रैव सा ययावाशु वडवारूपधारिणी
कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे । सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते
तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् । दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम्
पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् । कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम्
व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् । कपालमालाकलितं नागयज्ञोपवीतिनम्
सागरस्य सुता कृत्वा हयीरूपं मनोहरम् । तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः
ध्यायमाना परं देवं वैराग्यं समुपाश्रिता । दिव्यं वर्षसहस्रं तु गतं तत्र महीपते
ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः । प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः
तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् । तपस्यन्तीं महाभागामश्विनीरूपधारिणीम्
किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे । सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः
हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् । वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम्
वेदोक्तं वचनं कार्यं नारीणां देवता पतिः । नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्क्वचित्
पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः । यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया
नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि । तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे
लक्ष्मीरुवाच आशुतोष महेशान शप्ताहं पतिना शिव । मां समुद्धर देवेश शापादस्माद्दयानिधे
तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् । विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना
यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् । भविष्यति च वैकुण्ठवासस्ते कमलालये