तस्मादौर्वं सुतं मेऽद्य याचध्वं विनयान्विताः । प्रणिपातेन तुष्टोऽसौ दृष्टिं वः प्रतिमोक्ष्यति
व्यास उवाच तच्छ्रुत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम् । प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम्
स सन्तुष्टो बभूवाथ तानुवाच विचक्षुषः । गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः
अवश्यम्भाविभावास्ते भवन्ति देवनिर्मिताः । नात्र शोकस्तु कर्तव्यः पुरुषेण विजानता
पूर्ववदृषयः सर्वे प्राप्नुवन्तु यथासुखम् । व्रजन्तु विगतक्रोधा भवनानि यथासुखम्
इति तेन समादिष्टा हैहयाः प्राप्तलोचनाः । और्वमामन्त्र्य जग्मुस्ते सदनानि यथारुचि
ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता । पालयामास भूपाल तेजस्विनमतन्द्रिता
एवं ते कथितं राजन् भृगूणां तु विनाशनम् । लोभाविष्टैः क्षत्रियैश्च यत्कृतं पातकं किल
जनमेजय उवाच श्रुतं मया महत्कर्म क्षत्रियाणाञ्च दारुणम् । कारणं लोभ एवात्र दुःखदश्चोभयोस्तु सः
किञ्चित्प्रष्टुमिहेच्छामि संशयं वासवीसुत । हैहयास्ते कथं नाम्ना ख्याता भुवि नृपात्मजाः
यदोस्तु यादवाः कामं भरताद्भारतास्तथा । हैहयः कोऽपि राजाभूत्तेषां वंशे प्रतिष्ठितः
तदहं श्रोतुमिच्छामि कारणं करुणानिधे । हैहयास्ते कथं जाताः क्षत्रियाः केन कर्मणा
व्यास उवाच हैहयानां समुत्पत्तिं शृणु भूप सविस्तराम् । पुरातनीं सुपुण्यां च कथां पापप्रणाशिनीम्
कस्मिंश्चित्समये भूप सूर्यपुत्रः सुशोभनः । रेवन्तेति च विख्यातो रूपवानमितप्रभः
[http://puranastudy.freeoda.com/pur_index3/uchchaish.htm उच्चैःश्रव]समारुह्य हयरत्नं मनोहरम् । जगाम विष्णुसदनं वैकुण्ठं भास्करात्मजः
भगवद्दर्शनाकांक्षी हयारूढो यदागतः । हयस्थस्तु तदा दृष्टो लक्ष्म्यासौ रविनन्दनः
रमा वीक्ष्य हयं दिव्यं भ्रातरं सागरोद्भवम् । रूपेण विस्मिता तस्य तस्थौ स्तम्भितलोचना
भगवानपि तं दृष्ट्वा हयारूढं मनोहरम् । आगच्छन्तं रमां विष्णुः पप्रच्छ प्रणयात्प्रभुः
कोऽयमायाति चार्वङ्गि हयारूढ इवापरः । स्मरतेजस्तनुः कान्ते मोहयन्भुवनत्रयम्
प्रेक्षमाणा तदा लक्ष्मीस्तच्चित्ता दैवयोगतः । नोवाच वचनं किञ्चित्पृष्टापि च पुनः पुनः
व्यास उवाच अश्वासक्तमतिं वीक्ष्य कामिनीमतिमोहिताम् । पश्यन्तीं परमप्रेम्णा चञ्चलाक्षीं च चञ्चलाम्
तामाह भगवान्कुद्धः किं पश्यसि सुलोचने । मोहिता च हरिं दृष्ट्वा पृष्टा नैवाभिभाषसे
सर्वत्र रमसे यस्माद्रमा तस्माद्भविष्यसि । चञ्चलत्वाच्चलेत्येवं सर्वथैव न संशयः
प्राकृता च यथा नारी नूनं भवति चञ्चला । तथा त्वमपि कल्याणि स्थिरा नैव कदाचन
त्वं हयं मत्समीपस्था समीक्ष्य यदि मोहिता । वडवा भव वामोरु मर्त्यलोकेऽतिदारुणे
इति शप्ता रमा देवी हरिणा दैवयोगतः । रुरोद वेपमाना सा भयभीतातिदुःखिता
तमुवाच रमानाथ शङ्किता चारुहासिनी । प्रणम्य शिरसा देवं स्वपतिं विनयान्विता
देवदेव जगन्नाथ करुणाकर केशव । स्वल्पेऽपराधे गोविन्द कस्माच्छापं ददासि मे
न कदाचिन्मया दृष्टः क्रोधस्ते हीदृशः प्रभो । क्व गतस्ते मयि स्नेहः सहजो न तु नश्वरः
वज्रपातस्तु शत्रौ वै कर्तव्यो न सुहृज्जने । सदाहं वरयोग्या ते शापयोग्या कथं कृता