बभ्रमुर्गिरिदुर्गेषु जन्मान्धा इव क्षत्रियाः । चिन्तितं मनसा सर्वैः किमेतदिति साम्प्रतम्
सर्वे चक्षुर्विहीना यज्जाता स्म बालदर्शनात् । ब्राह्मण्यास्तु प्रभावोऽयं सतीव्रतबलं महत्
क्षणाद्वामोघसङ्कल्पाः किं करिष्यन्तिदुःखिताः । इति सञ्चिन्त्य मनसा नेत्रहीना निराश्रयाः
ब्राह्मणीं शरणं जग्मुर्हैहया गतचेतसः । प्रणेमुस्तां भयत्रस्तां कृताञ्जलिपुटाश्च ते
ऊचुश्चैनां भयोद्विग्नां दृष्ट्यर्थं क्षत्रियर्षभाः । प्रसीद सुभगे मातः सेवकास्ते वयं किल
कृतापराधा रम्भोरु क्षत्रियाः पापबुद्धयः । दर्शनात्तव तन्वङ्गि जाताः सर्वे विलोचनाः
मुखं ते नैव पश्यामो जन्मान्धा इव भामिनि । अद्भुतं ते तपो वीर्यं किं कुर्मः पापकारिणः
शरणं ते प्रपन्नाः स्मो देहि चक्षूंषि मानदे । अन्धत्वं मरणादुग्रं कृपां कर्तुं त्वमर्हसि
पुनर्दृष्टिप्रदानेन सेवकान्क्षत्रियान्कुरु । उपरम्य च गच्छेम सहिताः पापकर्मणः
अतः परं न कर्तव्यमीदृशं कर्म कर्हिचित् । भार्गवाणां तु सर्वेषां सेवकाः स्मो वयं किल
अज्ञानाद्यत्कृतं पापं क्षन्तव्यं तत्त्वयाधुना । वैरं नातः परं क्वापि भृगुभिः क्षत्रियैः सह
कर्तव्यं शपथैः सम्यग्वर्तितव्यं तु हैहयैः । सपुत्रा भव सुश्रोणि प्रणताः स्मो वयं च ते
प्रसादं कुरु कल्याणि न द्विष्यामः कदाचन । व्यास उवाच इति तेषां वचः श्रुत्वा ब्राह्मणी विस्मयान्विता
तानाह प्रणतान्दुःस्थानाश्वास्य गतलोचनान् । गृहीता न मया दृष्टिर्युष्माकं क्षत्रियाः किल
नाहं रुषान्विता सत्यं कारणं शृणुताद्य यत् । अयं च भार्गवो नूनमूरुजः कुपितोऽद्य वः
चक्षूंषि तेन युष्माकं स्तम्भितानि रुषावता । स्वबन्धून्निहताञ्ज्ञात्वा गर्भस्थानपि क्षत्रियैः
अनागसो धर्मपरांस्तापसान्धनकाम्यया । गर्भानपि यदा यूयं भृगूनघ्नंस्तु पुत्रकाः
तदायमूरुणा गर्भो मया वर्षशतं धृतः । षडङ्गश्चाखिलो वेदो गृहीतोऽनेन चाञ्जसा
गर्भस्थेनापि बालेन भृगुवंशविवृद्धये । सोऽपि पितृवधान्नूनं क्रोथेद्धो हन्तुमिच्छति
भगवत्याः प्रसादेन जातोऽयं मम बालकः । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः
तस्मादौर्वं सुतं मेऽद्य याचध्वं विनयान्विताः । प्रणिपातेन तुष्टोऽसौ दृष्टिं वः प्रतिमोक्ष्यति
व्यास उवाच तच्छ्रुत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम् । प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम्
स सन्तुष्टो बभूवाथ तानुवाच विचक्षुषः । गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः
अवश्यम्भाविभावास्ते भवन्ति देवनिर्मिताः । नात्र शोकस्तु कर्तव्यः पुरुषेण विजानता
पूर्ववदृषयः सर्वे प्राप्नुवन्तु यथासुखम् । व्रजन्तु विगतक्रोधा भवनानि यथासुखम्
इति तेन समादिष्टा हैहयाः प्राप्तलोचनाः । और्वमामन्त्र्य जग्मुस्ते सदनानि यथारुचि
ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता । पालयामास भूपाल तेजस्विनमतन्द्रिता
एवं ते कथितं राजन् भृगूणां तु विनाशनम् । लोभाविष्टैः क्षत्रियैश्च यत्कृतं पातकं किल
जनमेजय उवाच श्रुतं मया महत्कर्म क्षत्रियाणाञ्च दारुणम् । कारणं लोभ एवात्र दुःखदश्चोभयोस्तु सः
किञ्चित्प्रष्टुमिहेच्छामि संशयं वासवीसुत । हैहयास्ते कथं नाम्ना ख्याता भुवि नृपात्मजाः