तस्माद्वयं गुरूनेतान्वञ्चकान्ब्राह्मणाधमान् । हन्तुं समुद्यताः सर्वे न क्रोधव्यं महात्मभिः
व्यास उवाच इत्युक्त्वा हेतुमद्वाक्यं तानाश्वास्य मुनीनथ । विचेरुश्च विचिन्वाना भृगुदाराननेकशः
भयार्ता भृगुपत्न्यस्तु हिमवन्तं धराधरम् । प्रपेदिरे रुदन्त्यश्च वेपमानाः कृशा भृशम्
एवं ते हैहयैर्विप्राः पीडिता धनकामुकैः । निहताश्च यथाकामं संरब्धैः पापकर्मभिः
लोभ एव मनुष्याणां देहसंस्थो महारिपुः । सर्वदुःखाकरः प्रोक्तो दुःखदः प्राणनाशकः
सर्वपापस्य मूलं हि सर्वदा तृष्णयान्वितः । विरोधकृत्त्रिवर्णानां सर्वार्तेः कारणं तथा
लोभात्त्यजन्ति धर्मं वै कुलधर्मं तथैव हि । मातरं भ्रातरं हन्ति पितरं बान्धवं तथा
गुरुं मित्रं तथा भार्यां पुत्रं च भगिनीं तथा । लोभाविष्टो न किं कुर्यादकृत्यं पापमोहितः
क्रोधात्कामादहङ्काराल्लोभ एव महारिपुः । प्राणांस्त्यजति लोभेन किं पुनः स्यादनावृतम्
पूर्वजास्ते महाराज धर्मज्ञाः सत्पथे स्थिताः । पाण्डवाः कौरवाश्चैव लोभेन निधनं गताः
यत्र भीष्मश्च द्रोणश्च कृपः कर्णश्च बाह्लिकः । भीमसेनो धर्भपुत्रस्तथैवार्जुनकेशवौ
तथापि युद्धमत्युग्रं कृतं तैश्च परस्परम् । कुटुम्बकदनं भूरि कृतं लोभातुरैरिह
हतो द्रोणो हतो भीष्मस्तथैव पाण्डवात्मजाः । भ्रातरः पितरः पुत्राः सर्वे वै निहता रणे
तस्माल्लोभाभिभूतस्तु किं न कुर्यान्नरः किल । हैहयैर्निहताः सर्वे भृगवः पापबुद्धिभिः
हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् जनमेजय उवाच कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् । मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत्
हैहयैः किं कृतं कार्यं हत्वा तान्ब्राह्मणानपि । क्षत्रियैर्लोभसंयुक्तैः पापाचारैर्वदस्व तत्
न तृप्तिरस्ति मे ब्रह्मन् पिबतस्ते कथामृतम् । पावनं सुखदं नॄणां परलोके फलप्रदम्
व्यास उवाच शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । यथा स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात्
भृगुपत्न्यो यदा राजन् हिमवन्तं गिरिं गताः । भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम्
गौरीं तत्र तु संस्थाप्य मृण्मयीं सरितस्तटे । उपोषणपराश्चक्रुर्निश्चयं मरणं प्रति
स्वप्ने गत्वा तदा देवी प्राह ताः प्रमदोत्तमाः । युष्मासु मध्ये कस्याश्चिद्भविता चोरुजः पुमान्
मदंशशक्तिसम्भिन्नः स वः कार्यं विधास्यति । इत्यादिश्य पराम्बा सा पश्चादन्तर्हिताभवत्
जागृतास्तु ततः सर्वा मुदमापुर्वराङ्गनाः । काचित्तासां भयोद्विग्ना कामिनी चतुरा भृशम्
दधार चोरुणैकेन गर्भं सा कुलवृद्धये । पलायनपरा दृष्टा क्षत्रियैर्ब्राह्मणी यदा
विह्वला तेजसा युक्ता तदा ते दुद्रुवुर्भृशम् । गृह्यतां वध्यतां नारी सगर्भा याति सत्वरा
इति ब्रुवन्तः सम्प्राप्ताः कामिनीं खड्गपाणयः । सा भयार्ता तु तान्दृष्ट्वा रुरोद समुपागतान्
गर्भस्य रक्षणार्थं सा चुक्रोशातिभयातुरा । रुदतीं मातरं श्रुत्वा दीनां प्राणविवर्जिताम्
निराधारां क्रन्दमानां क्षत्रियैर्भृशतापिताम् । गृहीतामिव सिंहेन सगर्भां हरिणीं यथा
साश्रुनेत्रां वेपमानां सङ्क्रुध्य बालकस्तदा । भित्त्वोरुं निर्जगामाशु गर्भः सूर्य इवापरः
मुष्णन्दृष्टीः क्षत्रियाणां तेजसा बालकः शुभः । दर्शनाद्बालकस्याशु सर्वे जाता विलोचनाः