एभिर्हृतं धनं सर्वं पूर्वजानां महात्मनाम् । वञ्चयित्वा छलाभिज्ञैर्मार्गे पाटच्चरैरिव
एते प्रतारका दम्भास्तादृशा बकवृत्तयः । उत्पन्ने च महाकार्ये प्रार्थिता विनयेन ते
न ददुः प्रार्थितं विप्राः पादवृद्ध्यापि याचिताः । नास्तीतिवादिनः स्तब्धाः दुःखितान्वीक्ष्य याज्यकान्
धनं प्राप्तं कार्तवीर्याद्रक्षितं केन हेतुना । न कृताः क्रतवः किं तैर्दानं चार्थिषु भूरिशः
न सञ्चितव्यं विप्रैस्तु धनं चापि कदाचन । यष्टव्यं विधिवद्देयं भोक्तव्यं च यथासुखम्
द्रव्ये चौरभयं प्रोक्तं तथा राजभयं द्विजाः । वह्नेर्भयं महाघोरं तथा धूर्तभयं महत्
येन केनाप्युपायेन धनं त्यजति रक्षकम् । अथवासौ मृतो याति द्रव्यं त्यक्त्वा ह्यसद्गतिम्
पादवृद्ध्या तथास्माभिः प्रार्थितं विनयान्वितैः । तथापि लोभसन्दिग्धैर्न दत्तं नः पुरोहितैः
दानं भोगस्तथा नाशो धनस्य गतिरीदृशी । दानभोगौ कृतीनां च नाशः पापात्मनां किल
न दाता न च यो भोक्ता कृपणो गुप्तितत्परः । राज्ञासौ सर्वथा दण्ड्यो वञ्चको दुःखभाङ्नरः
तस्माद्वयं गुरूनेतान्वञ्चकान्ब्राह्मणाधमान् । हन्तुं समुद्यताः सर्वे न क्रोधव्यं महात्मभिः
व्यास उवाच इत्युक्त्वा हेतुमद्वाक्यं तानाश्वास्य मुनीनथ । विचेरुश्च विचिन्वाना भृगुदाराननेकशः
भयार्ता भृगुपत्न्यस्तु हिमवन्तं धराधरम् । प्रपेदिरे रुदन्त्यश्च वेपमानाः कृशा भृशम्
एवं ते हैहयैर्विप्राः पीडिता धनकामुकैः । निहताश्च यथाकामं संरब्धैः पापकर्मभिः
लोभ एव मनुष्याणां देहसंस्थो महारिपुः । सर्वदुःखाकरः प्रोक्तो दुःखदः प्राणनाशकः
सर्वपापस्य मूलं हि सर्वदा तृष्णयान्वितः । विरोधकृत्त्रिवर्णानां सर्वार्तेः कारणं तथा
लोभात्त्यजन्ति धर्मं वै कुलधर्मं तथैव हि । मातरं भ्रातरं हन्ति पितरं बान्धवं तथा
गुरुं मित्रं तथा भार्यां पुत्रं च भगिनीं तथा । लोभाविष्टो न किं कुर्यादकृत्यं पापमोहितः
क्रोधात्कामादहङ्काराल्लोभ एव महारिपुः । प्राणांस्त्यजति लोभेन किं पुनः स्यादनावृतम्
पूर्वजास्ते महाराज धर्मज्ञाः सत्पथे स्थिताः । पाण्डवाः कौरवाश्चैव लोभेन निधनं गताः
यत्र भीष्मश्च द्रोणश्च कृपः कर्णश्च बाह्लिकः । भीमसेनो धर्भपुत्रस्तथैवार्जुनकेशवौ
तथापि युद्धमत्युग्रं कृतं तैश्च परस्परम् । कुटुम्बकदनं भूरि कृतं लोभातुरैरिह
हतो द्रोणो हतो भीष्मस्तथैव पाण्डवात्मजाः । भ्रातरः पितरः पुत्राः सर्वे वै निहता रणे
तस्माल्लोभाभिभूतस्तु किं न कुर्यान्नरः किल । हैहयैर्निहताः सर्वे भृगवः पापबुद्धिभिः
हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् जनमेजय उवाच कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् । मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत्
हैहयैः किं कृतं कार्यं हत्वा तान्ब्राह्मणानपि । क्षत्रियैर्लोभसंयुक्तैः पापाचारैर्वदस्व तत्
न तृप्तिरस्ति मे ब्रह्मन् पिबतस्ते कथामृतम् । पावनं सुखदं नॄणां परलोके फलप्रदम्
व्यास उवाच शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । यथा स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात्
भृगुपत्न्यो यदा राजन् हिमवन्तं गिरिं गताः । भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम्
गौरीं तत्र तु संस्थाप्य मृण्मयीं सरितस्तटे । उपोषणपराश्चक्रुर्निश्चयं मरणं प्रति