पुरा नभोगिरा कंसो देवक्यष्टमगर्भतः । ज्ञात्वात्ममृत्युं पापो मां सभार्यां न्यरुणद्भिया
कारागारेऽहमवसं देवक्या सह भार्यया । जातं जातं समवधीत्पुत्रं कंसोऽपि पापकृत्
षट् पुत्रा निहतास्तेन तदा शोकाकुला भृशम् । अतप्यद्देवकी देवी नक्तंदिवमनिन्दिता
तदाऽहं गर्गमाहूय मुनिं नत्वाऽभिपूज्य च । निवेद्य देवकीदुःखमवोचं पुत्रकाम्यया
भगवन्करुणासिन्धो यादवानां गुरुर्भवान् । आयुष्मत्पुत्रसंप्राप्तिसाधनं वद मे मुने
ततो गर्गः प्रसन्नात्मा मामुवाच दयानिधिः । वसुदेव महाभाग शृणु तत्साधनं परम्
या सा भगवती दुर्गा भक्तदुर्गतिहारिणी । तामाराधय कल्याणीं सद्यः श्रेयो ह्यवाप्स्यसि
यदाराधनतः सर्वे सर्वान्कामानवाप्नुयुः । न किचिद्दुर्लभं लोके दुर्गार्चनवतां नृणाम्
इत्युक्तोऽहं मुदा युक्तः सभार्यो मुनिपुङ्गवम् । प्रणम्य परया भक्त्या प्रावोचं विहितांजलिः
वसुदेव उवाच। यद्यस्ति भगवन्प्रीतिर्मयि ते करुणानिधे । तदा पुरा मदर्थे त्वं समाराधय चण्डिकाम्
निरुद्धः कंसगेहेऽहं न किंचित्कर्तुमुत्सहे । अतस्त्वमेव दुःखाब्धेर्मामुद्धर महामते
इत्युक्तस्तु मया प्रीतः प्रोवाच मुनिपुङ्गवः । वसुदेव तव प्रीत्या करिष्यामि हितं तव
अथ गर्गमुनिः प्रीत्या मया संप्रार्थितोऽगमत् । आरिराधयिषुर्दुर्गां विंध्याद्रिं ब्राह्मणैः सह
तत्र गत्वा जगद्धात्रीं भक्ताभीष्टप्रदायिनीम् । आराधयामास मुनिर्जपपाठपरायणः
यतः समाप्ते नियमे वागुवाचाशरीरिणी । प्रसन्नाऽहं मुने कार्यसिद्धिस्तव भविष्यति
भूभारहरणार्थाय मया संप्रेषितो हरिः । वसुदेवस्य देवक्यां स्वांशेनावतरिष्यति
कंसभीत्या तमादाय बालमानकदुंदुभिः । प्रापयिष्यति सद्यस्तु गोकुले नन्दवेश्मनि
यशोदातनयां नीत्वा स्वगृहे कंसभूभुजे । दास्यत्यथ च तां हंतुं कंस आक्षेप्स्यति क्षितौ
सा तद्धस्ताद्विनिर्गत्य सद्यो दिव्यवपुर्द्धरा । मदंशभूता विंध्याद्रौ करिष्यति जगद्धितम्
इति तद्वचनं श्रुत्वा प्रणम्य जगदम्बिकाम् । गर्गो मुनिः प्रसन्नात्मा मथुरामगमत्पुरीम्
वरदानं महादेव्या गर्गाचार्यसुखावहम् । श्रुत्वा सभार्यः संप्रीतः परं मुदमथागमत्
तदारभ्य परं जाने देवीमाहात्म्यमुत्तमम् । अधुनापि हि देवर्षे श्रुतं तव मुखांबुजात्
अतो भागवतं देव्यास्त्वमेव श्रावय प्रभो । मद्भाग्यादेव देवर्षे संप्राप्तोऽसि दयानिधे
वसुदेववचः श्रुत्वा नारदः प्रीतमानसः । सुदिने शुभनक्षत्रे कथारंभमथाकरोत्
कथाविघ्नविघातार्थं द्विजा जेपुर्नवाक्षरम् । मार्कण्डेयपुराणोक्तं पेठुर्देव्याः स्तवं तथा
प्रथमस्कंधमारभ्य श्रीनारदमुखोद्गतम् । शुश्राव वसुदेवश्व भक्त्या भागवतामृतम्
नवमेऽह्नि कथापूर्तौ पुस्तकं वाचकं तथा । प्रसन्न: पूजयामास वसुदेवो महामनाः
अथ तत्र बिलस्यांतः कृष्णजांबवतोर्मृधे । कृष्णमुष्टिविनिष्पातश्लथाङ्गो जांबवानभूत्
अथागतस्मृतिः सो हि भगवंतं प्रणम्य च । उवाच परया भक्त्या स्वापराधं क्षमापयन्
ज्ञातोऽसि रघुवर्यस्त्वं यद्रोषात्सरितां पतिः । क्षोभं जगाम लंकां च रावणः सानुगो हतः