वैरस्य कारणं तेषां किं मे ब्रूहि पितामह । निमित्तेन विना क्रोधं कथं कुर्वन्ति सत्तमाः
वैरं पुरोहितैः सार्धं कस्मात्तेषामजायत । नाल्पहेतोर्हि तद्वैरं क्षत्रियाणां भविष्यति
अन्यथा ब्राह्मणान् पूज्यान्कथं जघ्नुरनागसः । बाहुजा बलवन्तोऽपि पापभीताः कथं न ते
स्वल्पेऽपराधे को हन्याद्वाडवान्क्षत्रियर्षभः । सन्देहो मे मुनिश्रेष्ठ कारणं वक्तुमर्हसि
सूत उवाच इति पृष्टस्तदा तेन राज्ञा सत्यवतीसुतः । उवाच परमप्रीतः कथां संस्मृत्य चेतसा
व्यास उवाच शृणु पारिक्षिते वार्तां क्षत्रियाणां पुरातनीम् । आश्चर्यकारिणीं सम्यग्विदितां च पुरा मया
कार्तवीर्येति नाम्नाभूद्धैहयः पृथिवीपतिः । सहस्रबाहुर्बलवानर्जुनो धर्मतत्परः
दत्तात्रेयस्य शिष्योऽभूदवतारो हरेरिव । सिद्धः सर्वार्थदः शाक्तो भृगूणां याज्य एव सः
यज्वा परमधर्मिष्ठः सदा दानपरायणः । ददौ वित्तं भृगुभ्योऽसौ कृत्वा यज्ञाननेकशः
धनिनस्ते द्विजा जाता भृगवो नृपदानतः । हयरत्नसमृद्ध्याढ्याः सञ्जाताः प्रथिता भुवि
स्वर्याते नृपशार्दूले कार्तवीर्यार्जुने पुनः । हैहया निर्धना जाताः कालेन महता नृप
धनकार्यं समुत्पन्नं हैहयानां कदाचन । याचिष्णवोऽभिजग्मुस्तान्भूगूंस्ते हैहया नृप
विनयं क्षत्रियाः कृत्वाप्ययाचन्त धनं बहु । न ददुस्तेऽतिलोभार्ता नास्ति नास्तीतिवादिनः
भूमौ च निदधुः केचिद्भृगवो धनमुत्तमम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्
कृत्वा स्थानान्तरे द्रव्यं ब्राह्मणा भयविह्वलाः । त्यक्त्वाऽऽश्रमान्ययुः सर्वे भृगवस्तृष्णयान्विताः
याज्यांश्च दुःखितान्दृष्ट्वा न ददुर्लोभमोहिताः । पलायित्वा गताः सर्वे गिरिदुर्गानुपाश्रिताः
ततस्ते हैहयास्तात दुःखिताः कार्यगौरवात् । भृगूणामाश्रमाञ्जग्मुर्द्रव्यार्थं क्षत्रियर्षभाः
भृगूंस्तु निर्गतान्वीक्ष्य शून्यांस्त्यक्त्या गृहानथ । चखनुर्भूतलं तत्र द्रव्यार्थं हैहया भृशम्
खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि । ददृशुः क्षत्रियाः सर्वे तद्वित्तं श्रमकर्शिताः
यत्र यत्र समुत्पन्नं भूरि द्रव्यं महीतलात् । तदा ते पार्श्वभागस्थब्राह्मणानां गृहाण्यपि
निर्भिद्य हैहया द्रव्यं ददृशुर्धनलिप्सया । ब्राह्मणाश्चुकुशः सर्वे भीताश्च शरणं गताः
अतिचिन्वत्सु विप्राणां भवनान्निःसृतं बहु । निजघ्नुस्ताञ्छरैः कोपाद्वाडवाञ्छरणागतान्
ययुस्ते गिरिदुर्गांश्च यत्र वै भृगवः स्थिताः । आगर्भादनुकृन्तन्तश्चेरुश्चैव महीमिमाम्
प्राप्तान्प्राप्तान्भृगून्सर्वान्निजघ्नुर्निशितैः शरैः । आबालवृद्धानपरानवमन्य च पातकम्
एवमुत्पाट्यमानेषु भार्गवेषु यतस्ततः । हन्युर्गर्भांश्च नारीणां गृहीत्वा हैहया भृशम्
रुरुदुस्ताः स्त्रियः कामं कुरर्य इव दुःखिताः । गर्भाश्च कृन्तिता यासां क्षत्रियैः पापनिश्चयैः
अन्येऽप्याहुश्च तान्दृप्तान्मुनयस्तीर्थवासिनः । मुञ्चन्तु क्षत्रियाः क्रोधं ब्राह्मणेषु भयावहम्
अयुक्तमेतदारब्धं भवद्भिः कर्म गर्हितम् । यद्गर्भान्भृगुपत्नीनां निहन्युः क्षत्रियर्षभाः
अत्युग्रपुण्यपापानामिहैव फलमाप्नुयात् । तस्माज्जुगुप्सितं कर्म त्यक्तव्यं भूतिमिच्छता
तानाहुर्हैहयाः क्रुद्धा मुनीनथ दयापरान् । भवन्तः साधवः सर्वे नार्थज्ञाः पापकर्मणाम्