यथा न नश्यति तमः कृतया दीपवार्तया । तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् । शीलं परहितत्वं च कोपाभावः क्षमा धृतिः
सन्तोषश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् । विद्यया तपसा वापि योगाभ्यासेन भूपते
विना कामादिशत्रूणां नैव नाशः कदाचन । (मनस्तु चञ्चलं रास्वभावादतिदुर्ग्रहम् । तद्वशः सर्वथा प्राणी त्रिविधो भुवनत्रये । ) कामक्रोधादयो भावाश्चित्तजाः परिकीर्तिताः
ते तदा न भवन्त्येव यदा वै निर्जितं मनः । तस्मात्तु निमिना राजन्न क्षमा विहिता मुनौ
यथा ययातिना पूर्वं कृता शुक्रे कृतागसि । भृगुपुत्रेण शप्तोऽपि ययातिर्नृपसत्तमः
न शशाप मुनिं क्रोधाज्जरां राजा गृहीतवान् । कश्चित्सौम्यो भवेत्कश्चित्क्रूरो भवति पार्थिवः
स्वभावभेदान्नृपते कस्य दोषोऽत्र कल्प्यते । हैहया भार्गवान्पूर्वं धनलोभात्पुरोहितान्
ब्राह्मणान्मूलतः सर्वांश्चिच्छिदुः क्रोधमूर्च्छिताः । पातकं पृष्ठतः कृत्वा ब्रह्महत्यासमुद्भवम्
हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् जनमेजय उवाच कुले कस्य समुत्पन्नाः क्षत्रिया हैहयाश्च ते । ब्रह्महत्यामनादृत्य निजघ्नुर्भार्गवांश्च ये
वैरस्य कारणं तेषां किं मे ब्रूहि पितामह । निमित्तेन विना क्रोधं कथं कुर्वन्ति सत्तमाः
वैरं पुरोहितैः सार्धं कस्मात्तेषामजायत । नाल्पहेतोर्हि तद्वैरं क्षत्रियाणां भविष्यति
अन्यथा ब्राह्मणान् पूज्यान्कथं जघ्नुरनागसः । बाहुजा बलवन्तोऽपि पापभीताः कथं न ते
स्वल्पेऽपराधे को हन्याद्वाडवान्क्षत्रियर्षभः । सन्देहो मे मुनिश्रेष्ठ कारणं वक्तुमर्हसि
सूत उवाच इति पृष्टस्तदा तेन राज्ञा सत्यवतीसुतः । उवाच परमप्रीतः कथां संस्मृत्य चेतसा
व्यास उवाच शृणु पारिक्षिते वार्तां क्षत्रियाणां पुरातनीम् । आश्चर्यकारिणीं सम्यग्विदितां च पुरा मया
कार्तवीर्येति नाम्नाभूद्धैहयः पृथिवीपतिः । सहस्रबाहुर्बलवानर्जुनो धर्मतत्परः
दत्तात्रेयस्य शिष्योऽभूदवतारो हरेरिव । सिद्धः सर्वार्थदः शाक्तो भृगूणां याज्य एव सः
यज्वा परमधर्मिष्ठः सदा दानपरायणः । ददौ वित्तं भृगुभ्योऽसौ कृत्वा यज्ञाननेकशः
धनिनस्ते द्विजा जाता भृगवो नृपदानतः । हयरत्नसमृद्ध्याढ्याः सञ्जाताः प्रथिता भुवि
स्वर्याते नृपशार्दूले कार्तवीर्यार्जुने पुनः । हैहया निर्धना जाताः कालेन महता नृप
धनकार्यं समुत्पन्नं हैहयानां कदाचन । याचिष्णवोऽभिजग्मुस्तान्भूगूंस्ते हैहया नृप
विनयं क्षत्रियाः कृत्वाप्ययाचन्त धनं बहु । न ददुस्तेऽतिलोभार्ता नास्ति नास्तीतिवादिनः
भूमौ च निदधुः केचिद्भृगवो धनमुत्तमम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्
कृत्वा स्थानान्तरे द्रव्यं ब्राह्मणा भयविह्वलाः । त्यक्त्वाऽऽश्रमान्ययुः सर्वे भृगवस्तृष्णयान्विताः
याज्यांश्च दुःखितान्दृष्ट्वा न ददुर्लोभमोहिताः । पलायित्वा गताः सर्वे गिरिदुर्गानुपाश्रिताः
ततस्ते हैहयास्तात दुःखिताः कार्यगौरवात् । भृगूणामाश्रमाञ्जग्मुर्द्रव्यार्थं क्षत्रियर्षभाः
भृगूंस्तु निर्गतान्वीक्ष्य शून्यांस्त्यक्त्या गृहानथ । चखनुर्भूतलं तत्र द्रव्यार्थं हैहया भृशम्
खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि । ददृशुः क्षत्रियाः सर्वे तद्वित्तं श्रमकर्शिताः
यत्र यत्र समुत्पन्नं भूरि द्रव्यं महीतलात् । तदा ते पार्श्वभागस्थब्राह्मणानां गृहाण्यपि