अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा । सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः
अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः । येनायं जनकाज्जातस्तेनासौ जनकोऽभवत्
विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये । समुद्भूतास्तु राजानो विदेहा इति कीर्तिताः
एवं निमिसुतो राजा प्रथितो जनकोऽभवत् । नगरी निर्मिता तेन गङ्गातीरे मनोहरा
मिथिलेति सुविख्याता गोपुराट्टालसंयुता । धनधान्यसमायुक्ता हट्टशालाविराजिता
वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा । विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः
एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् । शापाद्यस्य विदेहत्वं विस्तरादुदितं मया
राजोवाच भगवन्भवता प्रोक्तं निमिशापस्य कारणम् । श्रुत्वा सन्देहमापन्नं मनो मेऽतीव चञ्चलम्
वसिष्ठो ब्राह्मणः श्रेष्ठो राज्ञश्चैव पुरोहितः । पुत्रः पङ्कजयोनेस्तु राज्ञा शप्तः कथं मुनिः
गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा । यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः
ज्ञात्वा धर्मस्य विज्ञानं कथमिक्ष्वाकुसम्भवः । क्रोधस्य वशमापन्तः शप्तवान्ब्राह्मणं गुरुम्
व्यास उवाच क्षमातिदुर्लभा राजन्प्राणिभिरजितात्मभिः । क्षमावान्दुर्लभो लोके सुसमर्थो विशेषतः
सर्वसङ्गपरित्यागी मुनिर्भवतु तापसः । निद्राक्षुधोर्विजेता च योगाभ्यासे सुनिष्ठितः
कामः क्रोधस्तथा लोभो ह्यहङ्कारश्चतुर्थकः । दुर्ज्ञेया देहमध्यस्था रिपवस्तेन सर्वथा
न भूतपूर्वः संसारे न चैव वर्ततेऽधुना । भविता न पुमान्कश्चिद्यो जयेत रिपूनिमान्
न स्वर्गे न च भूलोके ब्रह्मलोके हरेः पदे । कैलासे नेदृशः कश्चिद्यो जयेत रिपूनिमान्
मुनयो ब्रह्मपुत्राश्च तथान्ये तापसोत्तमाः । तेऽपि गुणत्रयाविद्धाः किं पुनर्मानवा भुवि
कपिलः सांख्यवेत्ता च योगाभ्यासरतः शुचिः । तेनापि दैवयोगाद्धि प्रदग्धाः सगरात्मजाः
तस्माद्राजन्नहङ्कारात्सञ्जातं भुवनत्रयम् । कार्यकारणभावात्तु तद्वियुक्तं कथं भवेत्
ब्रह्मा गुणत्रयाविष्टो विष्णुश्चैवाथ शङ्करः । प्रभवन्ति शरीरेषु तेषां भावाः पृथक्पृथक्
मानवानां च का वार्ता सत्त्वैकान्तव्यवस्थितौ । गुणानां सङ्करो राजन्सर्वत्र समवस्थितः
कदाचित्सत्त्ववृद्धिः स्यात्कदाचिद्रजसः किल । कदाचित्तमसो वृद्धिः समभावः कदाचन
निर्गुणः परमात्मासौ निर्लेपः परमोऽव्ययः । अलक्ष्यः सर्वसत्त्वानामप्रमेयः सनातनः
तथैव परमा शक्तिर्निर्गुणा ब्रह्मसंस्थिता । दुर्ज्ञेया चाल्पमतिभिः सर्वभूतव्यवस्थितिः
परात्मनस्तथा शक्तेस्तयोरैक्यं सदैव हि । अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते सर्वदोषतः
तज्ज्ञानादेव मोक्षः स्यादिति वेदान्तडिण्डिमः । यो वेद स विमुक्तोऽस्मिन्संसारे त्रिगुणात्मके
ज्ञानं तु द्विविधं प्रोक्तं शाब्दिकं प्रथमं स्मृतम् । वेदशास्त्रार्थविज्ञानात्तद्भवेद्बुद्धियोगतः
विकल्पास्तत्र बहवो भवन्ति मतिकल्पिताः । (कुतर्ककल्पिताः केचित्सतर्ककल्पिताः परे । वितर्कैर्विभ्रमोत्पत्तिर्विभ्रमाद्बुद्धिभ्रंशता । बुद्धिभ्रंशाज्ज्ञाननाशः प्राणिनां परिकीर्तितः । ) अनुभवाख्यं द्वितीयं तु ज्ञानं तद्दुर्लभं नृप
तत्तदा प्राप्यते तस्य वेत्तुः सङ्गो यदा भवेत् । शब्दज्ञानान्न कार्यस्य सिद्धिर्भवति भारत
तस्मान्नानुभवज्ञानं सम्भवत्यतिमानुषम् । अन्तर्गतं तमश्छेत्तुं शाब्दबोधो हि न क्षमः