किं कर्तव्यमहोऽस्माभिः शापदग्धो महीपतिः । अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्च धार्मिकः
किं कर्तव्यं कार्यमेतद्विपरीतमभूत्किल । अवश्यम्भाविभावत्वादशक्ताः स्म निवारणे
मन्त्रैर्बहुविधैर्देहं तदा तस्य महात्मनः । रक्षितं धारयामासुः किञ्चिच्छ्वसनसंयुतम्
गन्धैर्माल्यैश्च विविधैः पूज्यमानं मुहुर्मुहुः । मन्त्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम्
समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः । ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप
विज्ञप्ता मुनिभिः स्तोत्रैर्निर्विण्णात्मानमब्रुवन् । प्रसन्नाः स्म महीपाल वरं वरय सुव्रत
यज्ञेनानेन राजर्षे वरं जन्म विधीयते । देवदेहं नृदेहं वा यत्ते मनसि वाञ्छितम्
दृप्तः कामं पुरोधास्ते मृत्युलोके यथासुखम् । एवमुक्तो निमेरात्मा सन्तुष्टस्तानुवाच ह
न देहे मम वाञ्छास्ति सर्वदैव विनश्वरे । वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः
नेत्रेषु सर्वभूतानां वायुभूतश्चराम्यहम् । एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन्
प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् । मखेनानेन सन्तुष्टा सा तेऽभीष्टं विधास्यति
स देवैरेवमुक्तस्तु प्रार्थयामास देवताम् । स्तोत्रैर्नानाविधैर्दिव्यैर्भक्त्या गद्गदया गिरा
प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ । कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितम् । १६ दृष्ट्वा प्रमुदिताः सर्वे कृतकृत्याश्च चेतसि । प्रसन्नायां देवतायां राजा वव्रे वरं नृप
ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि । नेत्रेषु सर्वभूतानां निवासो मे भवेदिति
ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका । ज्ञानं ते विमलं भूयात्प्रारब्धस्यावशेषतः
नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति । निमिषं यान्ति चक्षूंषि त्वत्कृतेनैव देहिनाम्
तव वासात्सनिमिषा मानवाः पशवस्तथा । पतङ्गाश्च भविष्यन्ति पुनश्चानिमिषाः सुराः
इति दत्त्वा वरं तस्मै तदा श्रीवरदेवता । आमन्त्र्य च मुनीन्सर्वांस्तत्रैवान्तर्हिताभवत्
अन्तर्हितायां देव्यां तु मुनयस्तत्र संस्थिताः । विचिन्त्य विथिवत्सर्वे निमेर्देहं समाहरन्
अरणिं तत्र संस्थाप्य ममन्धुर्मन्त्रवत्तदा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ
अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा । सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः
अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः । येनायं जनकाज्जातस्तेनासौ जनकोऽभवत्
विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये । समुद्भूतास्तु राजानो विदेहा इति कीर्तिताः
एवं निमिसुतो राजा प्रथितो जनकोऽभवत् । नगरी निर्मिता तेन गङ्गातीरे मनोहरा
मिथिलेति सुविख्याता गोपुराट्टालसंयुता । धनधान्यसमायुक्ता हट्टशालाविराजिता
वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा । विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः
एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् । शापाद्यस्य विदेहत्वं विस्तरादुदितं मया
राजोवाच भगवन्भवता प्रोक्तं निमिशापस्य कारणम् । श्रुत्वा सन्देहमापन्नं मनो मेऽतीव चञ्चलम्
वसिष्ठो ब्राह्मणः श्रेष्ठो राज्ञश्चैव पुरोहितः । पुत्रः पङ्कजयोनेस्तु राज्ञा शप्तः कथं मुनिः
गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा । यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः