पतत्विदं शरीरं ते विदेहो भव भूपते । व्यास उवाच इति तद्व्याहृतं श्रुत्वा राज्ञस्तु परिचारकाः
सद्यः प्रबोधयामासुर्मुनिमाहुः प्रकोपितम् । कुपितं तं समागत्य राजा विगतकल्मषः
उवाच वचनं श्लक्ष्णं हेतुगर्भं च युक्तिमत् । . मम दोषो न धर्मज्ञ गतस्त्वं तृष्णयाऽऽकुलः
हित्वा मां यजमानं वै प्रार्थितोऽपि मया भृशम् । न लज्जसे द्विजश्रेष्ठ कृत्वा कर्म जुगुप्सितम्
सन्तोषे ब्राह्मणश्रेष्ठ जानन्धर्मस्य निश्चयम् । पुत्रोऽसि ब्रह्मणः साक्षाद्वेदवेदाङ्गवित्तमः
न वेत्सि विप्रधर्मस्य गतिं सूक्ष्मां दुरत्ययाम् । आत्मदोषं मयि ज्ञात्वा मृषा मां शस्तुमिच्छसि
त्याज्यस्तु सुजनैः क्रोधश्चण्डालादधिको यतः । वृथा क्रोधपरीतेन मयि शापः प्रपातितः
तवापि च पतत्वद्य देहोऽयं क्रोधसंयुतः । एवं शप्तो मुनी राज्ञा राजा च मुनिना तथा
परस्परं प्राप्य शापं दुःखितौ तौ बभूवतुः । वसिष्ठस्त्वतिचिन्तार्तो ब्रह्माणं शरणं गतः
निवेदयामास तथा शापं भूपकृतं महत् । वसिष्ट उवाच राज्ञा शप्तोऽस्मि देहोऽयं पतत्वद्य तवेति वै
किं करोमि पितः प्राप्यं कष्टं कायप्रपातजम् । अन्यदेहसमुत्पत्तौ जनकं वद साम्प्रतम्
तथा मे देहसंयोगः पूर्ववत्समपद्यताम् । यादृशं ज्ञानमेतस्मिन्देहे तत्रास्तु तत्पितः
समर्थोऽसि महाराज प्रसादं कर्तुमर्हसि । वसिष्ठस्य वचः श्रुत्वा ब्रह्मा प्रोवाच तं सुतम्
मित्रावरुणयोस्तेजस्त्वं प्रविश्य स्थिरो भव । तस्मादयोनिजः काले भविता त्वं न संशयः
पुनर्देहं समासाद्य धर्मयुक्तो भविष्यसि । भूतात्मा वेदवित्कामं सर्वज्ञः सर्वपूजितः
एवमुक्तस्तदा पित्रा प्रययौ वरुणालयम् । कृत्वा प्रदक्षिणं प्रीत्या प्रणम्य च पितामहम्
विवेश स तयोर्देहे मित्रावरुणयोः किल । जीवांशेन वसिष्ठोऽथ त्यक्त्वा देहमनुत्तमम्
कदाचित्तूर्वशी राजन्नागता वरुणालयम् । यदृच्छया वरारोहा सखीगणसमावृता
दृष्ट्वा तामप्सरां दिव्यां रूपयौवनसंयुताम् । जातौ कामातुरौ देवौ तदा तामूचतुर्नृप
विवशौ चारुसर्वाङ्गीं देवकन्यां मनोरमाम् । आवां त्वमनवद्याङ्गि वरयस्व समाकुलौ
विहरस्व यथाकामं स्थानेऽस्मिन्वरवर्णिनि । तथोक्ता सा ततो देवी ताभ्यां तत्र स्थितावशा
कृत्वा भावं स्थिरं देवी मित्रावरुणयोर्गृहे । सा गृहीत्वा तयोर्भावं संस्थिता चारुदर्शना
तयोस्तु पतितं वीर्यं कुम्भे दैवादनावृते । तस्माज्जातौ मुनी राजन्द्वावेवातिमनोहरौ
अगस्तिः प्रथमस्तत्र वसिष्ठश्चापरस्तथा । मित्रावरुणयोर्वीर्यात्तापसावृषिसत्तमौ
प्रथमस्तु वनं प्राप्तो बाल एव महातपाः । इक्ष्वाकुस्तु वसिष्ठं तं बालं वव्रे पुरोहितम्
वंशस्यास्य सुखार्थं ते पालयामास पार्थिव । विशेषेण मुनिं ज्ञात्वा प्रीत्या युक्तो बभूव ह
एतत्ते सर्वमाख्यातं वसिष्ठस्य च कारणम् । शापाद्देहान्तरप्राप्तिर्मित्रावरुणयोः कुले
देवीमहिम्नि नानाभाववर्णनम् जनमेजय उवाच देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल । निमिः कथं पुनर्देहं प्राप्तवानिति मे वद
व्यास उवाच वसिष्ठेन च सम्प्राप्तः पुनर्देहो नराधिप । निमिना न तथा प्राप्तो देहः शापादनन्तरम्
यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ ऋत्विजो ये वृता राज्ञा ते सर्वे समचिन्तयन्