पराशक्तिप्रभावोऽयं नोल्लंघ्यः केनचित्क्वचित् । यस्यानुगृहमिच्छेत्सा मोचयत्येव तं क्षणात्
महान्तोऽपि न मुच्यन्ते हरिब्रह्महरादयः । पामरा अपि मुच्यन्ते यथा सत्यव्रतादयः
तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये । तथापि भक्तवश्येयं भवत्येव सुनिश्चितम्
तस्मात्तद्भक्तिरास्थेया दोषनिर्भूलनाय च । रागदम्भादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत्
इक्ष्याकुकुलसम्भूतो निमिर्नाम नराधिपः । रूपवान् गुणसम्पन्नो धर्मज्ञो लोकरञ्जकः
सत्यवादी दानपरो याजको ज्ञानवाच्छुचिः । द्वादशस्तनयो धीमान्प्रजापालनतत्परः
पुरं निवेशयामास गौतमाश्रमसन्निधौ । जयन्तपुरसंज्ञं तु ब्राह्मणानां हिताय सः
बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी । यज्ञेन बहुकालेन दक्षिणासंयुतेन च
इस्वाकुं पितरं पृष्ट्वा यज्ञकार्याय पार्थिवः । कारयामास सम्भारं यथोद्दिष्टं महात्मभिः
भृगुमङ्गिरसं चैव वामदेवं च गौतमम् । वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं क्रतुम्
मुनीनामन्त्रयामास सर्वज्ञान्वेदपारगान् । यज्ञविद्याप्रवीणांश्च तापसान्वेदवित्तमान्
राजा सम्भृतसम्भारः सम्पूज्य गुरुमात्मनः । वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः
यजेयं मुनिशार्दूल याजयस्व कृपानिधे । गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु साम्प्रतम्
यज्ञोपकरणं सर्वं समानीतं सुसंस्कृतम् । पञ्चवर्षसहस्रं तु दीक्षां कर्तुं मतिश्च मे
यस्मिन्यज्ञे समाराध्या देवी श्रीजगदम्बिका । तत्प्रीत्यर्थमहं यज्ञं करोमि विधिपूर्वकम्
तच्छ्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम् । इन्द्रेणाहं वृतः पूर्वं यज्ञार्थं नृपसत्तम
पराशक्तिमखं कर्तुमुद्युक्तः पाकशासनः । स दीक्षां गमितो देवः पञ्चवर्षशतात्मिकाम्
तस्मात्त्वमन्तरं तावत्प्रतिपालय पार्थिव । इन्द्रयज्ञे समाप्तेऽत्र कृत्वा कार्यं दिवस्पतेः
आगमिष्याम्यहं राजंस्तावत्त्वं प्रतिपालय । राजोवाच मया निमन्त्रिताश्चान्ये मुनयो यज्ञकारणात्
सम्भाराः सम्भृताः सर्वे पालयामि कथं गुरो । इक्ष्वाकूणां कुले ब्रह्मन्गुरुस्त्वं वेदवित्तमः
कथं त्यक्त्वाद्य मे कार्यमुद्यतो गन्तुमाशु वै । न ते युक्तं द्विजश्रेष्ठ यदुत्सृज्य मखं मम
गन्तासि धनलोभेन लोभाकुलितचेतनः । निवारितोऽपि राज्ञा स जगामेन्द्रमखं गुरुः
राजापि विमना भूत्वा गौतमं प्रत्यपूजयत् । इयाज हिमवत्पार्श्वे सागरस्य समीपतः
दक्षिणा बहुला दत्ता विप्रेभ्यो मखकर्मणि । निमिना पञ्चसाहस्री दीक्षा तत्र कृता नृप
ऋत्विजः पूजिताः कामं धनैर्गोभिर्मुदा युताः । शक्रयज्ञसमाप्ते तु पञ्चवर्षशतात्मके
आजगाम वसिष्ठस्तु राज्ञः सत्रदिदृक्षया । आगत्य संस्थितस्तत्र दर्शनार्थं नृपस्य च
तदा राजा प्रसुप्तस्तु निद्रयापहृतो ्भृशम् । नासौ प्रबोधितो भृत्यैर्नागतस्तु मुनिं नृपः
वसिष्ठस्य ततो मन्युः प्रादुर्भूतोऽवमानतः । अदर्शनान्निमेस्तत्र चुकोप मुनिसत्तमः
शापं च दत्तवांस्तस्मै राज्ञे मन्युवशं गतः । यस्मात्त्वं मां गुरुं त्यक्त्वा कृत्वान्यं गुरुमात्मनः
दीक्षितोऽसि बलान्मन्द मामवज्ञाय पार्थिव । वारितोऽपि मया तस्माद्विदेहस्त्वं भविष्यसि