व्यास उवाच निबोध नृपतिश्रेष्ठ वसिष्ठो ब्रह्मणः सुतः । निमिशापात्तनुं त्यक्त्वा पुनर्जातो महाद्युतिः
मित्रावरुणयोर्यस्मात्तस्मात्तन्नाम विश्रुतम् । मैत्रावरुणिरित्यस्मिँल्लोके सर्वत्र पार्थिव
राजोवाच कस्माच्छप्तः स धर्मात्मा राज्ञा ब्रह्मात्मजो मुनिः । चित्रमेतन्मुनिं लग्नो राज्ञः शापोऽतिदारुणः
अनागसं मुनिं राजा किमसौ शप्तवान्मुने । कारणं वद धर्मज्ञ तस्य शापस्य मूलतः
व्यास उवाच कारणं तु मया प्रोक्तं तव पूर्वं विनिश्चितम् । संसारोऽयं त्रिभिर्व्याप्तो राजन्मायागुणैः किल
धर्मं करोतु भूपालश्चरन्तु तापसास्तपः । सर्वेषां तु गुणैर्विद्धं नोज्ज्वलं तद्भवेदिह
कामक्रोधाभिभूताश्च राजानो मुनयस्तथा । लोभाहङ्कारसंयुक्ताश्चरन्ति दुश्चरं तपः
यजन्ति क्षत्रिया राजन् रजोगुणसमावृताः । ब्राह्मणास्तु तथा राजन् न कोऽपि सत्त्वसंयुतः
ऋषिणासौ निमिः शप्तस्तेन शप्तो मुनिः पुनः । दुःखाद्दुःखतरं प्राप्तावुभावपि विधेर्बलात्
द्रव्यशुद्धिः क्रियाशुद्धिर्मनसः शुद्धिरुज्ज्वला । दुर्लभा प्राणिनां भूप संसारे त्रिगुणात्मके
पराशक्तिप्रभावोऽयं नोल्लंघ्यः केनचित्क्वचित् । यस्यानुगृहमिच्छेत्सा मोचयत्येव तं क्षणात्
महान्तोऽपि न मुच्यन्ते हरिब्रह्महरादयः । पामरा अपि मुच्यन्ते यथा सत्यव्रतादयः
तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये । तथापि भक्तवश्येयं भवत्येव सुनिश्चितम्
तस्मात्तद्भक्तिरास्थेया दोषनिर्भूलनाय च । रागदम्भादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत्
इक्ष्याकुकुलसम्भूतो निमिर्नाम नराधिपः । रूपवान् गुणसम्पन्नो धर्मज्ञो लोकरञ्जकः
सत्यवादी दानपरो याजको ज्ञानवाच्छुचिः । द्वादशस्तनयो धीमान्प्रजापालनतत्परः
पुरं निवेशयामास गौतमाश्रमसन्निधौ । जयन्तपुरसंज्ञं तु ब्राह्मणानां हिताय सः
बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी । यज्ञेन बहुकालेन दक्षिणासंयुतेन च
इस्वाकुं पितरं पृष्ट्वा यज्ञकार्याय पार्थिवः । कारयामास सम्भारं यथोद्दिष्टं महात्मभिः
भृगुमङ्गिरसं चैव वामदेवं च गौतमम् । वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं क्रतुम्
मुनीनामन्त्रयामास सर्वज्ञान्वेदपारगान् । यज्ञविद्याप्रवीणांश्च तापसान्वेदवित्तमान्
राजा सम्भृतसम्भारः सम्पूज्य गुरुमात्मनः । वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः
यजेयं मुनिशार्दूल याजयस्व कृपानिधे । गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु साम्प्रतम्
यज्ञोपकरणं सर्वं समानीतं सुसंस्कृतम् । पञ्चवर्षसहस्रं तु दीक्षां कर्तुं मतिश्च मे
यस्मिन्यज्ञे समाराध्या देवी श्रीजगदम्बिका । तत्प्रीत्यर्थमहं यज्ञं करोमि विधिपूर्वकम्
तच्छ्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम् । इन्द्रेणाहं वृतः पूर्वं यज्ञार्थं नृपसत्तम
पराशक्तिमखं कर्तुमुद्युक्तः पाकशासनः । स दीक्षां गमितो देवः पञ्चवर्षशतात्मिकाम्
तस्मात्त्वमन्तरं तावत्प्रतिपालय पार्थिव । इन्द्रयज्ञे समाप्तेऽत्र कृत्वा कार्यं दिवस्पतेः
आगमिष्याम्यहं राजंस्तावत्त्वं प्रतिपालय । राजोवाच मया निमन्त्रिताश्चान्ये मुनयो यज्ञकारणात्
सम्भाराः सम्भृताः सर्वे पालयामि कथं गुरो । इक्ष्वाकूणां कुले ब्रह्मन्गुरुस्त्वं वेदवित्तमः