शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः । स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम्
स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः । तत्रागत्य शुनःशेपं मुमोच करुणार्णवः
रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ । विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः
न कृतं वचनं राज्ञा कौशिकस्य महात्मनः । रोषं दधार मनसा राजोपरि स गाधिजः
एकस्मिन्समये राजा हयारूढो वनं गतः । सूकरं हन्तुकामस्तु मध्याह्ने कौशिकीतटे
वृद्धब्राह्मणवेषेण विश्वामित्रेण वञ्चितः । सर्वस्वं प्रार्थितं तस्य गृहीतं राज्यमद्भुतम्
पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् । वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया
क्षत्रियाधम दुर्बुद्धे वृथा ब्राह्मणवेषभृत् । बकधर्म वृथा किं त्वं गर्वं वहसि दाम्भिक
कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ । अपराधं विना जाल्म गमितो दुःखमद्भुतम्
बकध्यानपरो यस्मात्तस्मात्त्वं वै बको भव । इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः
त्वमप्याडिर्भवायुष्मन् बकोऽहं यावदेव हि । व्यास उवाच एवं परस्परं दत्त्वा शापं तौ क्रोधपीडितौ
अण्डजौ तरसा जातौ सरस्याडीबकौ मुनी । एकस्मिन्पादपे नीडं कृत्वासौ बकरूपभाक्
विश्वामित्रः स्थितस्तत्र दिव्ये सरसि मानसे । अन्यस्मित्पादपे कृत्वा वसिष्ठो नीडमुत्तमम्
आडीरूपधरस्तस्थावन्योन्यं द्वेषतत्परौ । दिने दिने तौ संग्रामं चक्रतुः क्रोधसंयुतौ
दुःखदं सर्वलोकानां क्रन्दमानावुभौ भृशम् । चञ्चुपक्षप्रहारैस्तु नखाघातैः परस्परम्
जघ्नतू रुधिरक्लिनौ पुष्पिताविव किंशुकौ । एवं बहूनि वर्षाणि पक्षिरूपधरौ मुनी
स्थितौ तत्र महाराज शापपाशेन यन्त्रितौ । राजोवाच कथं मुक्तौ मुनिश्रेष्ठौ शापाद्वसिष्ठकौशिकौ
तन्ममाचक्ष्व विप्रर्षे परं कौतूहलं हि मे । व्यास उवाच युध्यमानाब्वुभौ दृष्ट्वा ब्रह्मा लोकपितामहः
तत्राजगामानिमिषैर्वृतः सर्वैर्दयापरैः । तावाश्वास्य जगत्कर्ता युद्धतो विनिवार्य च
शापं संमोचयामास तयोः क्षिप्तं परस्परम् । ततो जग्मुः सुराः सर्वे स्वानि धिष्ण्यानि पद्मभूः
सत्यलोकं जगामाशु हंसारूढः प्रतापवान् । विश्वामित्रोऽप्यगात्तूर्णं वसिष्ठः स्वाश्रमं गतः
मिथः स्नेहं ततः कृत्वा प्रजापत्युपदेशतः । मैत्रावरुणिनाप्येवं कृतं युद्धमकारणम्
कौशिकेन समं भूप दुःखदं च परस्परम् । को नाम मानवो लोके देवो वा दानवोऽपि वा
अहङ्कारजयं कृत्वा सर्वदा सुखभाग्भवेत् । तस्माद्राजंश्चित्तशुद्धिर्महतामपि दुर्लभा
यत्नेन साधनीया सा तद्विहीनं निरर्थकम् । तीर्थं दानं तपः सत्यं यत्किञ्चिद्धर्मसाधनम्
(श्रद्धात्र त्रिविधा प्रोक्ता सात्त्विकी राजसी तथा । तामसी सर्वदेहेषु देहिनां धर्मकर्मसु ॥ सात्त्विकी दुर्लभा लोके यथोक्तफलदा सदा । तदर्धफलदा प्रोक्ता राजसी विधिसंयुता ॥ तामसी त्वफला राजन्न तु कीर्तिकरी पुनः । कामक्रोधाभिभूतानां जनानां नृपसत्तम ॥) वासनारहितं कृत्वा तच्चित्तं श्रवणादिना । तीर्थादिषु वसेन्नित्यं देवीपूजनतत्परः
देवीनामानि वचसा गृह्णंस्तस्या गुणान्स्तुवन् । ध्यायंस्तस्याः पदाम्भोजं कलिदोषभयार्दितः
एवं तु कुर्वतस्तस्य न कदाचित्कलेर्भयम् । अनायासेन संसारान्मुच्यते पातकी जनः
वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् जनमेजय उवाच मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् । वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह
किमसौ कर्मतो नाम प्राप्तवान् गुणतस्तथा । ब्रूहि मे वदतांश्रेष्ठ कारणं तस्य नामजम्